________________ आवश्यकसूत्रावचूर्णिः उपोद्घाते द्रव्यमङ्गले नयविचार भावार्थ च स्वस्थाने वक्ष्यामः / तत्र नैगमनयः सामान्य विशेषांश्चाभ्युपगच्छति, विशेषाश्च पृथगभिन्नस्वरूपा इति तन्मतेन एकोऽनुपयुक्त एकं द्रव्यमङ्गलं, अनेकेऽनुपयुक्ता अनेकानि द्रव्यमङ्गलानि 1 / सङ्ग्रहनयस्तु सामान्यमेवैकं नित्यं निरवयवमक्रियमभ्युपैति नान्यत् , तस्य मतेन सर्वस्मिन्नपि जगत्येकमेव मङ्गलं, सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , सामान्यस्य च त्रिभुवनेऽप्येकत्वात् 2 / व्यवहारस्तु विशेषवादी, तथा च सङ्ग्रहनयं प्रत्याह-विशेषा एव तात्विकास्तेषामेव दोहवाहादिक्रियासूपयुज्यमानत्वात् , न सामान्यं तद्विपर्ययात् , न च तत्सदिति प्रत्येतुं शक्नुमः अनुपलम्भात्, न हि गवादीनिव विशेषान् शृङ्गग्राहिकया तेभ्यो व्यतिरिक्तं गोत्वादिसामान्यं पश्यामो, न चाऽपश्यन्त आत्मानं विप्रलभेमहि, ततः कथं तदभ्युपगच्छामः?, अस्य मतेन एकोऽनुपयुक्त एकं द्रव्यमङ्गलं, भूयांसोऽनुपयुक्ता भूयांसि द्रव्यमङ्गलानि / ननु नैगमोऽपि विशेषानिच्छति व्यवहारोऽपि, ततः कोऽनयोः प्रति विशेषः ?, नैगमः सामान्यमिच्छति विशेषांश्च, व्यवहारस्तु विशेषानेवेति / सिद्धसेनीयाः पुनः षडेव नयानभ्युपगतवन्तः, नैगमस्य संग्रहव्यवहारयोरन्तर्भावविवक्षणात् , तथाहि-यदा नैगमः सामान्यप्रतिपत्तिपरस्तदा स सङ्ग्रहेऽन्तभवति सामान्याभ्युपगमपरत्वात् , विशेषाभ्युपगमनिष्ठस्तु व्यवहारे 3 / ऋजुसूत्रस्त्वभिधत्ते-यदतीतं यच्चानागतं यच्च सदपि परकीय तदवस्तु, अतीतस्य विनष्टत्वादनागतस्यऽलब्धात्मलाभत्वात् परकीयस्य चार्थक्रियाकारित्वाभावात् , देवदत्तधनं हि यज्ञदत्तस्य परमार्थतोऽसत् , तत्कार्याकरणादिति, प्रतिप्राणि प्रसिद्धमेतत् किन्तु यत् सत् स्वकीयं तदेवैकं वस्तु, ततोऽस्य मतेनैकमेव द्रव्यमङ्गलं न भूयांसीति ।।येतु शब्दसमभिरूडैवम्भूतानयास्ते अत्यन्तविशुद्धत्वादागमतो द्रव्यमङ्गलमित्येवं नानुमन्यन्ते, तथा च ते आहुः-आगमतो हि द्रव्यमङ्गलमिदमुच्यते मङ्गलशब्दार्थज्ञाता तत्राऽनुपयुक्त इति, तदेतत्परस्परव्याहतं, यदि मङ्गलशब्दार्थज्ञाता // 5 //