SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्त्रावचूर्णिः उपोद्घाते मङ्गलस्य स्थापनाद्रव्यनिक्षेपौ। // 4 // * * ** नाम, अजीवविषयं यथा लाटदेशे दवरकवलनकस्य मङ्गलमिति नाम, उभयविषयं यथा वन्दनमालाया मङ्गलमिति नाम, अत्र हि दवरकादीन्यचेतनानि पत्रादीनि सचेतनानि // 1 // तथा सद्भावमाश्रित्य लेप्यकर्मादिष्वसद्भावं चाश्रित्याऽक्षवराटादिषु या स्वस्तिकादीनां स्थापना सा स्थापनामङ्गलं, स्थापना चाऽसौ मङ्गलं च स्थापनामङ्गलं / सद्भूतेन्द्रसमानाकारं लेप्यादिकम्मति भावार्थः, तदाकृतिशून्यं अक्षनिक्षेपादि तत्स्थापना / तचाल्पकालमित्वरं यावद्रव्यभावि च // 2 // द्रवति गच्छति तांस्तान्पर्यायानिति द्रव्यं, 'कृद्बहुल'मिति वचनात्कर्त्तरि यः, द्रव्यं च तन्मङ्गलं च द्रव्यमङ्गलम् / भूतस्य-अतीतस्य भाविनोवा-एष्यतो भावस्य-पर्यायस्य कारणं-निमित्तं यदस्मिन् लोके तत् तत्त्वज्ञैः-तीर्थकृद्भिरिति यावत् द्रव्यं कथितं / तच्च द्विधा-सचेतनमचेतनं, सचेतनमनुपयुक्तपुरुषाख्यं, अचेतनं ज्ञशरीरादीति। द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आसमन्तात् गम्यते वस्तु-| तत्त्वमनेनेत्यागमः-श्रुतज्ञानं, आगममधिकृत्यागमतः। आगमस्याभावः आगमस्य एकदेशो वा आगमेन सह मिश्रणं वा नोआगमः, नोशब्दस्य त्रिष्वप्यर्थेषु वर्तमानत्वात्, नोआगममधिकृत्य नोआगमतः। तत्राऽऽगमतो मङ्गलशब्दार्थज्ञाता तत्र चानुपयुक्तः, स हि मङ्गलशब्दार्थवासितान्तःकरणतया तज्ज्ञानलब्धिसहितो नोपयुक्त इति 'अनुपयोगो द्रव्य मिति वचनात् द्रव्यम् / ननु आगमो मङ्गलशब्दार्थपरिज्ञानमागमः श्रुतज्ञानमिति पूर्वमभिधानात् ज्ञानं च भाव इति कथमस्य द्रव्यता?, नैष दोषः, ज्ञानं छुपयोगात्मकं भावो, नलब्धिरूपं, 'उपयोगोभाव' इति वचनात्, अनुपयुक्तश्च तल्लब्धिसहितत्वात् ज्ञानकारणम् , अतो भूतस्य भाविनो वा भावस्य हि कारणमिति द्रव्यलक्षणसम्भवात् द्रव्यमिति, इदं चागमतो द्रव्यमङ्गलं पूर्वसूरिमिनयैर्विचारितं, नयाश्च सप्त, तद्यथा-नैगमः संग्रहः व्यवहारः ऋजुसूत्रः शब्दः समभिरूढः एवम्भूतश्च / अमीषां च शब्दार्थ ** asasal * * * * // 4 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy