SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आवश्यकसूत्रावचूर्णिः उपोद्घाते मङ्गलत्रयस्यावश्य. कता मङ्गलशब्दार्थनिक्षेपाश्च / इत्यादिना ग्रन्थेन स्वयमेव नियुक्तिकृता प्रपञ्चेन वक्ष्यते / सम्प्रति मङ्गलमुच्यते-तच्च शास्त्रस्यादौ मध्येऽवसाने च भवति। न | | युक्तो मङ्गलत्रयोपन्यासः, आदिमङ्गलेनैवाऽभीष्टार्थस्य सिद्धत्वादिति चेत्, तदसम्यक्, आदिमङ्गलमात्राभीष्टार्थसिद्ध्ययोगात्, तथाहि-आदिमङ्गलं विवक्षितशास्त्रस्याविघ्नेन पारं गच्छेयुरित्येवमर्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थ, अन्तमङ्गलं शिष्य(प्रशिष्य)परम्परया शास्त्रस्याव्यवच्छेदार्थ / तत्रादिमङ्गलम् 'आभिणिबोहियनाणमित्यादि, ज्ञानपञ्चकस्य परममङ्गलत्वात् , मध्यमङ्गलं 'वंदण चिइ किइकम्म' मित्यादि, वन्दनस्य विनयरूपत्वात्तस्य चाभ्यन्तरतपोभेदत्वात् तपोभेदस्य च मङ्गलत्वात् , पर्यन्तमङ्गलं 'पञ्चक्खाण'मित्यादि, प्रत्याख्यानस्याद्यतपोभेदत्वेन मङ्गलत्वात् / अथ मङ्गलमिति कः शब्दार्थः ?, उच्यते-'अगु वगु मगु' इत्यादि दण्डकधातुः, 'उदितः' इति नम्, मङ्गयते अधिगम्यते प्राप्यते हितमनेनेति मङ्गलं अलप्रत्ययः, अथवा मङ्गयते-प्राप्यते स्वर्गोऽपवर्गो वाऽनेनेति मङ्गः, 'पुन्नाम्नीति करणे घप्रत्ययः, मङ्गो धर्मः, तं लाति-आदत्ते इति मङ्गलं, डप्रत्ययः, मां गालयति भवादपनयतीत्यर्थ इति मङ्गलं / 'मडु भूषायां' मण्ड्यते-शास्त्रमलकियते अनेनेति मङ्गलं अलप्रत्ययः, अथवा 'मन् ज्ञाने' मन्यते-ज्ञायते निश्चीयते विघ्नाभावोऽनेनेति मङ्गलं / यदिवा 'मदै हर्षे माद्यन्ति-विघ्नाऽभावेन हृष्यन्ति शिष्या अनेनेति, मह पूजायां वा मह्यते-पूज्यते शास्त्रमनेनेति मङ्गलं, सर्वत्र अलप्रत्ययो निपातनाच्च विवक्षितरूपनिष्पत्तिः। तच्च नामादिभेदाच्चतुर्दा, तद्यथा-नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलं च, तत्र यस्य कस्यचिजीवस्याजीवस्य वा मङ्गलशब्दार्थरहितस्य मङ्गलमिति नाम क्रियते तन्नाममङ्गलं / यदृच्छया निवृत्तं याहच्छिकं / तच्च नामरूपं मङ्गलं त्रिधा, तद्यथा-जीवविषयमजीवविषयमुभयविषयं च, तत्र जीवविषयं सिन्धुविषये अग्नेमङ्गलमिति // 3 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy