________________ आवश्यकसूत्रावचूर्णिः // 2 // उपोद्घाते अनन्तरपरम्परप्रयोजनं अभिधे| यसम्बन्धी च। SEXKRRRRRRRRRRRORXXXC. चोक्तम्-"एषा द्वादशाङ्गी न कदाचिन्नासीन्न कदाचिन्न भवति, न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती" इत्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चाऽनित्यत्वादवश्यम्भावी तत्सद्भावः। तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वात् आगमस्य अर्थापेक्षया नित्यत्वात् , सूत्रापेक्षया त्वनित्यत्वात्कथञ्चित्कर्तृसिद्धिः / तत्र च सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः परं त्वपवर्गप्राप्तिः, उक्तं च-"सर्वज्ञोक्तोपदेशेन यः सत्त्वानामनुग्रहम् / करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छिवम्॥१॥" श्रोतॄणामनन्तरं प्रयोजनमावश्यकश्रुतस्कन्धार्थपरिज्ञानं, परं निःश्रेयसाऽवाप्तिः / कथमिति चेत्, उच्यते, इह ज्ञानक्रियाभ्यां मोक्षः, सम्यगवबोधपुरःसरं सावद्याऽनवद्ययोगनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव कर्मपरमाणूनामवयवशोऽपगमसम्भवात् / ज्ञानक्रियात्मकं चावश्यकमुभयस्वभावत्वात्, तयोश्च ज्ञानक्रिययोरवाप्तिर्विवक्षितावश्यक| श्रुतस्कन्धश्रवणतो जायते, नान्यथा, तत्कारणत्वात् तदवाप्तेः, अत एव भगवन्तो भद्रबाहुस्वामिनः परमकरुणापरीतचेतस | ऐदंयुगीनसाधूनामुपकाराय आवश्यकस्य व्याख्यानरूपामिमां नियुक्तिं कृतवन्तः, ततः श्रोतॄणामपि परम्परया मुक्तिभावाद्भवति | तेषां परं प्रयोजनं निःश्रेयसावाप्तिरिति प्रयोजनवान् आवश्यकप्रारम्भप्रयासः, अभिधेयं सामायिकादि तेषामेवास्मिन् ग्रन्थे सविस्तरमभिधास्यमानत्वात् / सम्बन्धस्तु द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापन्नमावश्यकमुपायः उपेयं सामायिकादिपरिज्ञानं मुक्तिपदं वा, तस्याप्यतः पारम्पर्येण भावात् , तथाहि-अस्मात् सम्यक् सामायिकाद्यर्थपरिज्ञानं भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, ताभ्यां प्रकर्षप्राप्ताभ्यां मुक्तिप्राप्तिरिति / गुरुपर्वक्रमलक्षणस्तु सम्बन्धः उपोद्घातनिर्युक्तौ 'उद्देसे निद्देसे य निग्गमें // 2 //