________________ श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 108 अर्ह श्रीहरिभद्रसूरिकृतवृत्त्यनुसारेण भट्टारकश्रीज्ञानसागरसूरिविरचिता श्रुतकेवलिश्रीभद्रबाहुखामिसूत्रनियुक्तियुतश्रीमदावश्यकसूत्रावचूर्णिः * **॥अहं॥ प्रेक्षावतां प्रवृत्त्यर्थ आदौ प्रयोजनादिकमुपन्यसनीयं, अन्यथा न युक्तोऽयमावश्यकप्रारम्भप्रयासो निःप्रयोजनत्वात् कण्टकशाखामर्दनवत् , निरभिधेयत्वात् काकदन्तपरीक्षावत् , असम्बद्धत्वात् दशदाडिमानि इत्यादिवाक्यवत्, स्वेच्छारचितशास्त्रवद्वेत्याशङ्कातःप्रेक्षावन्तोन प्रवर्तेरन् / तथा मङ्गलमप्यादौ वक्तव्यं, अन्यथा कर्तुःश्रोतृणां चाऽविघ्नेनेष्टफलसिद्ध्ययोगात्, उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ फलादित्रितयं स्फुटम् / मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये // 1 // " तत्र प्रयोजनं द्विधापरं अपरं च, पुनरेकै द्विधा-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा माव००१