________________ 833 * 24 आवश्यकनिर्युक्तेरव चूर्णिः // 346 // | सङ्ग्रहादिनयस्वरूपम्नि० गा० 756-758 संगहियपिंडियत्थं संगहवयणं समासओ बिति / वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं॥७५६॥ __ आभिमुख्येन गृहीतः-उपात्तः सङ्ग्रहीतः पिण्डितः-एकजातिमापन्नोऽप्यर्थो विषयो यस्य तत्सगृहीतपिण्डितार्थ सङ्ग्रहवचनं / ब्रजति निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयः-निःसामान्यभावस्तदर्थ-तन्निमित्तं, सामान्याभावायेत्यर्थः / व्यवहारो नयः सर्वद्रव्यविषये // 756 // पच्चुप्पण्णग्गाही उज्जुसुओ नयविही मुणेयव्यो / इच्छइ विसेसियतरं पच्चुप्पणं णओ सद्दो // 757 // वत्थूओ संकमणं होइ अवत्थू णए समभिरूढे / वंजणमत्थतदुभयं एवंभूओ विसेसेइ // 758 // प्रत्युत्पन्नं वर्तमानं तद्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्रो नयविधिः, अयं हि वर्तमानं स्वलिङ्गवचननामादिभेदभिन्नमप्ये वस्तु प्रतिपद्यते / तत्र लिङ्गभिन्नं तटस्तटी तटं, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावाः, इच्छति विशेषिततरं नाम स्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं नयः शब्दः, तथाहि-| अयं नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, न च भिन्नलिङ्गवचनमेकं स्त्रीपुरुषवत् कुटवृक्षवत् , अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकं // 757 // वस्तुनः सङ्कमणं भवत्यवस्तु नये समभिरूढे, अयमर्थः-घटनात् घटः विशिष्टचेष्टावानर्थो घटः, तथा 'कुट कौटिल्ये' कुटनात्कुटः, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः कुस्थितपूरणादित्यर्थः / ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता स्यात् , तथा च [सति] सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्या उभयस्वभावापगमतोऽवस्तुता / व्यञ्जनं-शब्दोऽर्थस्तु-तद्गोचरस्तच्च तदुभयं च तदुभयं-शब्दार्थलक्षणं BEEXXXXXXXXXXXXXXXX // 346 //