________________ आवश्यकनिर्युक्तेरव लक्षणद्वारम् नि० गा० 751 चूर्णिः // 344 // तेषामपि श्रोतृणामपि हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययोऽवबोधः सर्वज्ञ इत्येवम्भूतः स्यात् // 750 // लक्षणद्वारमाहनाम ठवणा दविए सरिसे सामण्णलक्खणागारे। गइरागइ णाणत्ती निमित्त उप्पाय विगमे य॥ 751 // लक्ष्यते अनेनेति लक्षण-पदार्थस्वरूपं, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनां / इदमेव च किञ्चिन्मात्रविशेषात्सादृश्यादिलक्षणभेदतो निरूप्यते, तत्र सादृश्यलक्षणमिहत्यघटसदृशः पाटलिपुत्रको घटः, सामान्यलक्षणं यथा सिद्धः (द्धत्वं) सिद्धानां सद्व्य जीवमुक्तत्वादिधमः समानः, आकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकत्वात् लक्षणं / गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलगमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं / तच्चतुर्डी-तत्र पूर्वपदव्याहतोदाहरणं-'जीवे णं भंते ! नेरइए ? नेरइए जीवे ?, गोअमा! जीवे सिअ नेरइए सिअ अनेरइए, नेरइए पुण निअमा जीवे' 1, उत्तरपदव्याहतं-'जीवइ भंते ! जीवे जीवे जीवइ ?, गोअमा! जीवइ ताव निअमा जीवे, जीवे पुण सिअ जीवइ सिअ नो जीवइ सिद्धानां जीवनाभावात् 2, उभयपदव्याहतं-'भवसिद्धिए ण भंते ! नेरइए !, नेरइए भवसिद्धिए ?, गोयमा! भवसिद्धिए सिय नेरइए सिअ अनेरइए, नेरइएवि सिअ भवसिद्धिए सिअ अभवसिद्धिए 3, उभयपदाव्याहतं-'जीवे भंते ! जीवे जीवे जीवे?, गोअमा! जीवे निअमा जीवे जीवेऽवि निअमा जीवे' 4, उपयोगो नियमाजीवः जीवोऽपि नियमादुपयोग इति भावना / तथा नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा तु चतुर्की द्रव्यादिभेदेन, तत्र द्रव्यतो नानाता द्विधा-तत्र तद्रव्यनानाता परमाणूनां // 344 //