________________ बावश्यक नियुक्तेरव चूर्णिः // 342 // भावकारणं तद्वक्तव्यताशेषं च नि० गा. 739-744 क्रियाविषयत्वात् घटादि कर्म कारणं, तथा घटादि (मृत्पिण्डादि) कारणं, यस्मै च सम्यक् संस्कृत्य कार्यस्य मृत्पिण्डादि | (सत्कृत्य प्रयत्नेन) दीयते तत्सम्प्रदानकारणं, यतोऽपादीयते गृह्यते मृत्पिण्डादि तद्भूम्यादि अपादानकारणं, यत्र निधाय कार्य क्रियते तदाधारभूतचक्रादि सन्निधानकारणं, यतः कुलालः क्रियाविषयता मृत्पिण्डदानयोग्यपात्रं भूमिश्चक्रं चेति षोढा कारणं विना न घटकार्यस्य सिद्धिः॥ 738 // भावकारणमाह| दुविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्थं / संसारस्सेगविहं दुविहं तिविहं च नायव्वं // 739 // त्रिविधं चेति चतुर्विधाद्यनेक( नुक्त )कारणभेदसमुच्चयार्थः॥ 739 // यदुक्तं-'संसारस्यैकविध' मित्यादि, तमाहअस्संजमो य एको अण्णाणं अविरई य दुविहं तु / अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु // 740 // प्रशस्तमाहहोइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा / तं चेव य विवरीयं अहिगारो पसत्थएणेत्थं // 741 // अत्र सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्य, प्रशस्तभावरूपं चेदं, कारणं च मोक्षस्ये त्यधिकारभावना // 741 // इत्थं कारणद्वारेऽधिकार प्रदर्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाहतित्थयरो किं कारण भासह सामाइयं तु अज्झयणं / तित्थयरणामगोत्तं कम्मं मे वेइयव्वंति // 742 // तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं / बज्झइ तं तु भगवओ तइयभवोसक्कइत्ताणं // 743 // णियमा मणुयगईए इत्थी पुरिसेयरोव्व सुहलेसो / आसेवियबहुलेहिं वीसाए अण्णयरएहिं // 744 // / // 342 //