SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव कारणद्वारम् नि० गा० 737-738 चूर्णिः // 341 // पुरुषः, धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुषः, भोगपुरुषः सम्प्राप्तसर्वविषयसुखभोगोपभोगसमर्थः, भावपुरुषश्च, चशब्दो नामाद्यनुक्रभेदसमुच्चयार्थः / भावे-भावद्वारे, प्रकृतं भावेन-भावपुरुषेण-शुद्धेन जीवेन तीर्थकृता इत्यर्थः, ततो वेदपुरुषेण च गणधरेण, अयमर्थः-अर्थतस्तीर्थकरान्निर्गतं, सूत्रतो गणधरेभ्यः॥ 736 // कारणमाहणिक्खेवो कारणंमी चउब्विहो दुविह होइ दव्वंमि / तद्दवमण्णदव्वे अहवावि णिमित्तमित्ती // 737 // करोतीति कारणं, कार्य निर्वर्त्तयतीत्यर्थः, तस्मिन्कारणे चतुर्विधो नामादिः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यति| रिक्तं द्विधा, यत आह-द्रव्ये द्विधा निक्षेपः, तव्यमिति तस्यैव पटादेर्द्रव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, | तद्विपरीतं वेमाद्यन्यद्रव्यकारणं, अथवा अन्यथा द्विविधत्वं-निमित्तं नैमित्तं, अपितोऽन्यथाऽपि कारणनानातेति, तां वक्ष्ये / तत्र पटस्य निमित्तं तन्तवस्त एव कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न स्यात्पटः तथा तद्गतातानादिचेष्टाव्यतिरेकेणापि न स्यादेव, तस्याश्च चेष्टाया वेमादि कारणं, अतो निमित्तस्येदं नैमितं(त्तिकं)॥ 737 // समवाइ असमवाई छविह कत्ता य कम्म करणं च / तत्तो य संपयाणापयाण तह संनिहाणे य // 738 // समवायः-संश्लेषः स येषां विद्यते ते समवायिनः-तन्तवो यस्मात्तेषु पटः [समवैति], समवायिनश्च ते कारणं च समवायिकारणं, तन्तुसंयोगाः कारणद्रव्यान्तरधर्मत्वात्पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वात् असमवायिनः त एव कारणं तत्तथा, एवमर्थाभेदेऽपि अनेकधा कारणद्वयोपन्यासः सञ्ज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनार्थ कृतः। अथवा पड्डिधं कारणं, करोतीति व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारणं, तथाहि-यो घटादिकार्य करोति स कुलालादिः कर्ता, कार्यनिर्वर्त्तन // 341 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy