SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः दशविध| सामाचारी नि०मा० 720-721 // 336 // तेभ्यो दीयते आगन्तुकस्तु कार्यते, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसृज्यते एव इत्यादिविभाषा कार्या / अथ क्षपणोपसम्पदुच्यते-चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा-विकृष्टक्षपको अविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्टः, तत्रापि विकृष्ट आचार्येण प्रष्टव्यः-त्वमायुष्मन् ! पारणके कीदृशो भवसि ?, यद्यसावाह-लानोपमस्ततो असौ वाच्योऽलं तव क्षपणेन, स्वाध्यायादी प्रयत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते / अन्ये तु व्याचक्षते विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव, यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव, तत्राप्याचार्येण गच्छः प्रष्टव्यः-अयं क्षपक उपसम्पद्यते तदनुमताविष्यते एवान्यथा त्यज्यते // 719 // चारित्रोपसम्पद्विशेषमाहउवसंपन्नो जं कारणं तु तं कारणं अपूरेंतो / अहवा समाणियंमी सारणया वा विसग्गो वा // 720 // 'यत्कारणं' यन्निमित्तं, तुतोऽन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृत्त्याद्यपूरयन् , यदा वर्त्तते इत्यध्याहारः, तदा तस्य 'सारणा'नोदना वा क्रियते तद्विसो वा, तथा न पूरयन्नेव यदा वर्तते तदैव सारणा विसर्गो वा क्रियते, किन्तु 'अहवा समाणियंमी'त्ति परिसमाप्तिं नीतेऽभ्युपगतप्रयोजने स्मारणा च क्रियते, यथा-समाप्तं, तद्विसो वा // 720 // उक्ता साधूपसम्पत् , अथ गृहस्थोपसम्पदुच्यते-तत्र साधुना सर्वत्रैवानुज्ञाप्य स्थातव्यं,इत्तरिय पिन कप्पइ अविदिन्नं खलु परोग्गहाईसुं। चिट्टित्तु निसिइत्तु व तइयव्ययरक्खणहाए // 721 // 'इत्वरमपि' स्वल्पमपि कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेद // 336 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy