________________ बावश्यकनिर्युक्तेरव चूर्णि दशविध| सामाचारी नि० गा० 698-700 &&&&&&&&&&&& आपृच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्तमानेन गुरोः कार्या, तथा पूर्वनिषिद्धेन सता उत्पन्ने च प्रयोजने कर्तुकामेन प्रतिपृच्छा कर्त्तव्या भवति, / तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कार्या-यदीदमुपयुज्यते ततो गृह्यतामिति, तथा निमन्त्रणा भवतीत्यगृहीतेनाशनादिना भवतोऽशनाद्यानयामीति // 697 // उपसम्पद्वारमाह उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य / दसणणाणे तिविहा दुविहा य चरित्तट्ठाए // 698 // द्विविधा च चारित्रार्थाय // 698 // तत्र यदुक्तं 'दर्शनज्ञानयोस्त्रिविधा' तदर्शनायाहवत्तणा संधणा चेव गहणं सुत्तत्थतदुभए / वेयावच्चे खमणे, काले आवकहाइ य // 699 // वर्त्तना सन्धना ग्रहणमित्येतत्रयं सूत्रार्थोभयविषयमवगन्तव्यं, एतदर्थमुपसम्पद्यते, तत्र वर्त्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनं, सन्धना तस्यैव प्रदेशान्तरविस्मृतस्य योजना, ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एवं ज्ञाने नव भेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एते एव द्रष्टव्याः / अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गी, आद्यः शुद्धः, शेषास्त्वशुद्धाः, द्विविधा चारित्रायेति यदुक्तं तदाह-चारित्रोपसम्पद्वैयावृत्त्यविषया क्षपणविषया च, इयं च कालतो यावत्कथिका चादित्वरा च स्यात्, अयमर्थः-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो याव कथिकश्च स्यात् // 699 // अयमेवार्थो विशेषत उच्यते-तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पदातव्या इति मौलिकोऽयं गुणः, |एतत्प्रभवत्वादुपसम्पदः, अतोऽमुमेवार्थमाह संदिट्ठो संदिवस्स चेव संपज्जई उ एमाई। चउभंगो एत्थं पुण पढमो भंगो हवह सुद्धो॥७००॥ // 331 //