________________ बावश्यकनिर्युक्तेरव दशविधसामाचारी नि० गा. 681-684 // 326 // ********************* व्रताद्यर्थमायातस्याचार्यमपि वैयावृत्त्ये नियुक्तं दृष्ट्वा विपरिणामादयो दोषाः / आह-इच्छाकारेणेदं तवानयामीत्याद्युक्त्वा यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाह संजमजोए अब्भुट्टियस्स सद्धाए काउकामस्स / लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स // 681 // निर्जराया लाभ एव अलब्ध्यादावदीनमनसः // 681 // मिथ्याकारमाह संजमजोए अन्भुट्टियस्स जं किंचि वितहमायरियं / मिच्छा एतंति वियाणिऊण मिच्छत्ति काय // 682 // - वितथमाचरितं भूतमिति वाक्यशेषः, 'मिच्छत्ति कायव्वं ति मिथ्यादुष्कृतं दातव्यं / संयमयोगविषयायां च प्रवृत्ती वितथासेवने मिथ्यादुष्कृतं दोषापनोदायालं, न तूपेत्यकरणगोचरायां // 682 // तथा चोत्सर्गमेवाह जह य पडिकमियत्वं अवस्स काऊण पावयं कम्मं / तं चेव न कायचं तो होइ पए पडिकंतो॥ 683 // यदि च प्रतिक्रान्तव्यं मिथ्यादुष्कृतं दातव्यमित्यर्थः, ततश्च 'तदेव' पापकं कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्तः॥ 683 // यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं स्यात्तथाभूतमाह जं दुक्कडंति मिच्छा तं भुज्जो कारणं अपूरेंतो। तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा // 684 // यत्करणमिति योगः, ततो यद्वस्तु दुष्कृतं (दुष्ठ कृतं) दुष्कृतमित्येवं विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तं, तद् भूयः प्रागुक्तं दुष्कृतकारणमपूरयन्नकुर्वन् यो वर्तते त्रिविधेन योगेन प्रतिक्रान्तो निवृत्तो यस्तस्माहुष्कृतकारणात् तस्यैव दुष्कृतं प्रागुक्तं, भवतीति क्रियाध्याहारः॥६८४॥ यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यक् स्यात्तमाह // 326 //