________________ बावश्यक निर्युक्तेरक दशविध सामाचारी चूर्णिः 1325 // अभ्यर्थनायां मरुकः, पुनः शिष्यनोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु वणिजौ द्वौ दृष्टान्तः, यथा एकस्य साधोलब्धिरस्ति, परं न करोति वैयावृत्त्य, आचार्यनोदितः प्राह-को मामभ्यर्थयति?, आचार्यणोचे-यो ज्ञानमदमत्तो नृपादिषु दातुमुधुक्केषु कार्तिकपूर्णिमायां याचनार्थमगच्छन् भार्यया याहीत्युक्तः प्राह-एक शूद्रादर्थयिष्ये अपरं तद्गृहे यास्यामि, यस्य कार्य स ममानीय ददातु, एवं स यावज्जीवं दरिद्रोऽभूत, एवं त्वमप्यर्थनां मार्गयन् भ्रश्यसि निर्जराया इत्युक्तः साधुराह-एवं जानद्भिरात्मनैव किं न क्रियते ?, तैरुक्तं सदृशस्त्वं वानरस्य, यथैको वानरो वृक्षस्थसुगृह्या शकुनिकया गृहार्थ भणितो रुष्टस्तद्गृहं बभञ्ज, एवं त्वमपि ममैवोपर्येतेन(रितनो) जातः, किञ्च ममान्यदपि निर्जराद्वारमस्ति, महत्तल्लाभात् भ्रश्यामि, यथा द्वौ वणिजौ स्तः, एको वर्षासु मूल्यदानभयात् स्वयमेव गृहमाच्छादयति, द्वितीयो मूल्यं दत्त्वा छादयति स्म, स तद्दिने व्यवहरन् द्विगुणं लभते, एवं यद्यहं स्वपमेव वैयावृत्त्यं कुर्वे तदा अचिन्तनेन सूत्रार्था नश्यन्ति, इत्यादिबहुतरं मे नश्यति, आह च-'सुत्तत्थेसु अचिन्तण आएसे वुहुसेहगगिलागे / बाले खमए वाई इड्डीमाइ अणिड्डी य॥१॥ एएहिं कारणेहिं तुंबभूओ उ हीति आयरिओ। वेयावच्चं न करे कायव्वं तस्स सेसेहिं // 2 // | जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेजा / नहु तुंबंमि विणढे अरगा साहारगा होति' // 3 // सूत्रार्थयोरचिन्तनं, आदेशः प्राघूर्णकस्तस्य स्वागतं न कश्चित्करोति, वृद्धशिक्षकग्लानक्षपकादीनां च न कश्चित्तप्तिं करोति, चेत्त्वाचार्यों वैयावृत्त्यव्यग्रो न स्यात्ततस्तान् परतः स्वतो वा उपचरत्येव, व्यालः सर्पस्तेन चेत्कश्चित्संयतो दश्यते तदा तदुपचारज्ञाभावात्कस्तमुपचरति ?, ऋद्धिमति सामान्येन सार्थवाहादी आदितोऽमात्यादौ वादिनि च समायाते लघुवं, अनृद्धिमतस्तु // 325 // बाचू. 28