________________ आवश्यकनिर्युक्तेरव | दशविधसामाचारी नि० गा० 677-680 चूर्णिः // 324 // RXXXXXXXXX ज्ञानादीनामर्थाय यदि कुर्यात्कृत्यानामाचार्याणां वैयावृत्त्यं 'कश्चित् साधुः, पाठान्तरं वा किञ्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधु वैयावृत्त्ये नियोजयतां भवेदिच्छाकारः, इच्छाकारपुरस्सरं योजनीयः // 676 // यस्मात्आणाबलाभिओगो णिग्गंथाणं ण कप्पई काउं / इच्छा पउंजियवा सेहे राईणिए [य] तहा // 677 // आज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कार(राप)णं बलाभियोगः, स निर्ग्रन्थानां न कल्पते का, किन्विच्छाकारः प्रयोक्तव्यः, कार्ये उत्पन्ने सति शि(शै)क्षके रत्नाधिके वा आलापादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु च // 677 // अपवादतस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, स हि प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आहजह जच्चबाहलाणं आसाणं जणवएसु जायाणं / सयमेव खलिणगहणं अहवावि बलाभिओगेणं // 678 // पुरिसजाएऽवि तहा विणीयविणयंमि नत्थि अभिओगो / सेसंमि उ अभिओगो जणवयजाए जहा आसे // 679 // यथा जात्यबाहीकानामश्वानां जनपदेषु च-मगधादिषु जातानां, चलोपोऽत्र ज्ञेयः, स्वयमेव खलिनग्रहणं स्यादथवा बलाभियोगेन, खलिनं-कविकमुच्यते, अयमर्थोपनयः-पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, विविधमानी(धं नी) तो (तः-प्रापितः) विनयो येन स तथा, तस्मिन्नास्त्यभियोगो जात्यबाह्रीकाश्ववत्, शेष-विनयरहिते बलाभियोगः प्रवर्तते, जनपदजाते यथाऽश्वे, तस्मात्स्वयमेव प्रत्युतेच्छाकारं दत्त्वाऽनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् // 678-79 // आह-तथाप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशङ्ख्याहअब्भत्थणाए मरुओ वानरओ चेव होइ दिटुंतो। गुरुकरणे सयमेव उ वाणियगा दुण्णि दिद्वंता // 680 // XXXCSXXX // 324 //