________________ आवश्यकनियुक्तेरव दशविधसामाचारी नि० गा० 669-672 // 322 // | 'से' तस्य कर्तुकामस्य कश्चिदन्यः साधुः, तत्र कारणजातग्रहणमुभयथापि सम्बध्यते, तत्रापि तेनऽन्येन वा साधुना तत्तस्य | चिकीर्षितं कर्तुकामेनेच्छाकारः, कार्य इति क्रियाध्याहारः, अपिश्चार्थे, स चानुक्तं समुच्चिनोति, अथवेत्यादिना न्यक्षेण वक्ष्यते, किमित्येवमत आह-न कल्पत एव // 668 // उक्तगाथावयवार्थमाहअब्भुवगमंमि नजइ अब्भत्थेउं ण वदृइ परो उ। अणिगृहियबलविरिएण साहुणा ताव होयव्वं // 669 // यदिशब्दप्रदर्शितेऽभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितुं 'न वर्त्तते' न युज्यत एव परः, किमित्यत आहअनिगृहितबलवीर्येण, तत्र बलं-शारीरं, वीर्यमान्तरः शक्तिविशेषः // 669 // आह-इत्थमभ्यर्थनागोचरेच्छाकारोपन्यासोज्नर्थकः ?, उच्यतेजइ हुन्ज तस्स अणलो कजस्स वियाणती ण वा वाणं। गिलाणाइहिं वा हुन्ज वियावडो कारणेहिं सो // 670 // यदि भवेत्तस्य प्रस्तुतकार्यस्यानलोऽसमर्थः विजानाति न वा, वाणमिति पूरणार्थों निपातः, ग्लानादिभिर्वा भवेद्व्यापृतः, कारणैरसौ तदाऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोति // 670 // आह चराइणियं वजेत्ता इच्छाकारं करेइ सेसाणं / एयं मज्झं कजं तुम्भे उ करेह इच्छाए // 671 // भावरत्नैर्ज्ञानादिभिरधिको रत्नाधिकस्तं // 671 // , 'जइ अब्भत्थेज परं कारणजाए' त्ति व्याख्यातं, 'करेज से कोई' इत्यवयवार्थ व्याख्याति, तत्रान्यकरणसम्भवे कारणमाह अहवावि विणासेंतं अब्भत्थेतं च अण्ण दवणं / अण्णो कोइ भणेजा तं साहं णिज्जरट्टीओ॥६७२॥ // 322 / /