________________ आवश्यकनियुक्तेरव चूर्णिः दशविधMIसामाचारी नि० गा. 666-668 // 321 // उपक्रमणमुपरिमश्रुतादिहानयनमुपक्रमः, समाचार्युपक्रमश्चासौ कालश्चेति समासः, यथायुकस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्च, तत्र कालकालवतोरभेदोपचारात्कालस्यैवाऽऽयुष्काद्युपाधिविशिष्टस्योपक्रमो ज्ञेयः। तत्र सामाचारी त्रिविधा-ओघः सामान्यं, ओघसामाचारी सामान्यतः सङ्क्षेपाभिधानरूपा, सा चौघनियुक्तिः, दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणि / तत्रौघसामाचारी नवमात्पूर्वात्तृतीयाद्वस्तुन आचाराभिधानात्तत्रापि विंशतितमात्प्राभृतात्तत्राप्योधप्राभृतप्राभृतात् नियूंढा, साम्प्रतकालसाधूनां प्रत्यासन्नीकृतेत्यर्थः / दशविधसामाचारी षड्विंशतितमादुत्तराध्ययनान्नियूंढा, पदविभागसामाचार्यपि नवमपूर्वादेव नियूंढा // 665 // __ अत्रौघनियुक्तिर्वाच्या, [सा च सुप्रपञ्चितत्वादेव न विवियते ] साम्प्रतं दशविधसामाचारीस्वरूपमाहइच्छा मिच्छा तहाकारो, आवसिया य निसीहिया / आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा // 666 // उवसंपया य काले, सामायारी भवे दसहा / एएसिं तु पयाणं पत्तेय परूवणं वोच्छं॥ 667 // कारशब्दस्य प्रत्येकं योगादिच्छया-बलाभियोगमन्तरेण करणमिच्छाकारः, तथा मिथ्याकरणं मिथ्याकारः, एवं कालविषया सामाचारी भवेद्दशविधा तु, एतेषां पदानां तुर्विशेषणे, गोचरप्रदर्शनेन प्रत्येकं प्ररूपणां वक्ष्ये // 666-67 // तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाहजइ अब्भत्थेज परं कारणजाए करेज से कोई / तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ॥६६८॥ ___यदीत्यभ्युपगमेऽन्यथा साधूनामकारणेऽभ्यर्थनैव न कल्पते, अभ्यर्थयेत् परमन्यं साधुं ग्लानादौ कारणजाते कुर्यादा, // 321 //