________________ आवश्यकनिर्युक्तेरव चूर्णिः // 320 // अद्धायथायुष्कउपक्रमकालद्वाराणि निगा० *KERSEKXKAREEEEEEEEEEXX देवादिगतिमधिकृत्य जीवाः सादिपर्यवसानाः जीवाः, सिद्धाः] प्रत्येकं सिद्धत्वेन साद्यपर्यवसाना, भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, अभव्याः अभव्यतयाऽनाद्यपर्यवसाना इति जीवस्थितिः चतुर्भनिन्का / पुद्गलाः पूरणगलनधर्माणः, पुद्गलत्वेन सादिपर्यवसानाः, अनागताद्धा-अनागतकालः, स हि वर्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसानः, 'तीयद्धत्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसानः, त्रयो धर्माधर्माकाशास्तिकाया अनाद्य-|| पर्यवसानाः, इत्थं जीवाजीवस्थितिश्चतुर्द्धा // 662 // अद्धाकालद्वारमाहसमयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य / संवच्छर युग पलिया सागर ओसप्पि परियहा // 663 // परमनिकृष्टः कालः समयः, आवलिका-असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, युगं पञ्चसंवत्सरं, परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः // 663 // यथायुष्ककालद्वारमुच्यते-तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां | वर्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा चाहनेरइयतिरियमणुयादेवाण अहाउयं तु जं जेण / निव्वत्तियमण्णभवे पालेंति अहाउकालो सो॥ 664 // नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्तितमन्यभवे तद्यथा(दा) विपाकतस्त एवानुपालयन्ति स यथायुष्ककालः॥ 664 // उपक्रमकालद्वारमाहदुविहोवक्कमकालो सामायारी अहाउयं चेव / सामायारी तिविहा ओहे दसहा पयविभागे // 665 // समाचरितः(रणं)[समाचारः]-शिष्टाचरितः क्रियाकलापस्तस्य भावः सामाचार्य, पुनः स्त्रीविवक्षायां सामाचारी, तस्या // 32 //