________________ कालद्वारे आवश्यकनियुक्तेरव द्रव्यकाले | नि० गा० 660-662 // 319 // XXX************ उक्तः सामायिकार्थसूत्रप्रणेतृणामहद्गणधराणां निर्गमः, अधुना अवसरायातं क्षेत्रद्वारमल्पवक्तव्यत्वादुल्लध्य कालद्वारमुच्यते, स च कालो नामाद्येकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपमाहदब्वे अद्ध अहाउय उवक्कमे देसकालकाले य / तह य पमाणे वण्णे भावे पगयं तु भावेणं // 660 // द्रव्य इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, वर्तना द्रव्यस्थितिः, आदिशब्दात्प्रतिक्षणभावी परिणामः, चन्द्रसूर्यादिक्रियाविशिष्टो अद्धाकालः समयादिलक्षणो वाच्यः, यथायुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, उपक्रमकालो अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, देशकालो वाच्यः, देशः प्रस्तावोऽवसरः, ततश्चाभीष्टवस्त्वऽवाप्त्यवसरकाल इत्यर्थः, कालभावो (लकालो) वाच्यः, तत्र कालो मरणमुच्यते, मरणक्रियाकलनं काल [काल] इत्यर्थः, प्रमाणकालो अद्धाकालो(ल)विशेषो दिवसादिलक्षणो वाच्यः, वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, औदयिकादिभावकालः सादिसपर्यवसानादिभेदमिन्नो वाच्यः, 'प्रकृतं तु भावेन' भावकालेनाधिकारः॥ 660 // आद्यकालद्वारमाह| चेयणमचेयणस्स व दव्वस्स ठिइ उ जा चउवियप्पा / सा होइ दव्वकालो अहवा दवियं तु तं चेव // 661 // चेतनाचेतनस्य देवस्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य स्थान-स्थितिरेव या सादिपर्यवसानादिभेदेन चतुर्विकल्पा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकालः॥ 661 // चतुर्विधस्थितिमाहगइ सिद्धा भवियाया अभविय पोग्गल अणागयद्धा य / तीयद्ध तिनि काया जीवाजीवहिई चउहा // 662 // 319 / / ******