________________ आवश्यकनियुक्तेरव चूर्णिः समवसरणवक्तव्यता नि० गा. 582-585 // 307 // सहस्राणि // 581 // भत्तिविहवाणुरूवं अण्णेऽवि य देंति इन्भमाईया। सोऊण जिणागमणं निउत्तमणिओइएसुं वा // 582 // नियुक्तानियोजितेभ्यो वा // 582 // तेषामित्थं प्रयच्छता के गुणा ? इति, उच्यतेदेवाणुअत्ति भत्ती पूया थिरकरण सत्तअणुकंपा। साओदय दाणगुणा पभावणा चेव तित्थस्स॥५८३ // देवानुवृत्तिः कृता स्यात्, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतस्तदनुवृत्तिः, भक्तिश्च भगवतः कृता स्यात् , तथा पूजा च, तथा स्थिरीकरणमभिवनश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृता, तथा सातोदयवेदनीयं बध्यते // 583 // साम्प्रतं देवमाल्यद्वारं, तत्र स्वाम्याद्यां सम्पूर्णपौरुषी धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति ? इति, उच्यतेराया व रायमचो तस्सऽसई पउरजणवओ वाऽवि / दुब्बलिखंडियबलिछडियतंदुलाणाढगं कलमा // 584 // 'राजा' चक्रवतिर्माण्डलिकादिः, राजाऽमात्यो वा, तस्य असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, | ग्रामादिषु जनपदो वा जनपदनिवासिलोकः, स किंविशिष्टः किंपरिमाणो वा क्रियते ? इति आह-दुर्बलिकया खण्डितानां बलवत्या छटितानां तन्दुलानामाढकं-चतुःप्रस्थप्रमाणं कलमानां // 584 // किंविशिष्टानामित्याह भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं / कीरइ बली सुरावि य तत्थेव छुहंति गंधाई // 585 // , भक्तपुनरानीतानां, भाजनम् ईश्वरादिगृहेषु बीननार्थमर्पणं, तेभ्यः प्रत्यानयनं-पुनरानयनं, भक्ताश्च ते पुनरानीताश्च // 307