________________ आवश्यकनियुक्तेरव समवसरण| वक्तव्यता | मि० गा० 575-578 चूर्णिः // 305 // XXXKRKEXXXXXXXXXXXXX कर्तव्य इति श्रोतृबुद्धिः प्रवर्तते, ग्राह्यवाक्यश्च सुरूपः स्यात्, चात् श्रोतृरूपाद्यभिमानापहारी च / / 574 // अथवा पृच्छेति स्वामी प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोति ?, उच्यते, युगपत् , किमित्याहकालेण असंखेणवि संखातीताण संसईणं तु / मा संसयवोच्छित्ती न होज कमवागरणदोसा // 575 // कालेनासायेयेनापि सहयातीतानां मा संशयव्यवच्छित्तिने भवेत्, कुतः ? क्रमव्याकरणदोषात्, अतो युगपद व्यागृणाति // 575 // युगपद् व्याकरणगुणमाह सम्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणं च / सव्वण्णुपच्चओऽवि य अचिंतगुणभूतिओ जुगवं॥५७६॥ _ 'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं युगपत्कथनेन तुल्यत्वं भगवतः, तथा ऋद्धिविशेषश्चायं भगवतः, अकालहरणं चेत्थं स्वामिनो युगपत्संशयापगमात् , सर्वज्ञप्रत्ययोऽपि च तेषामित्थमेव, न ह्यसर्वज्ञो हृद्गताऽशेषसंशयापनोदायालं, तथाऽचिन्त्या गुणभूतिः-गुणसम्पद्भगवतः, यस्मादेते गुणास्ततो युगपत्कथयति // 576 // श्रोतृपरिणामद्वारमाहवासोदयस्स व जहा वण्णादी होंति भायणविसेसा / सव्वेसिपि सभासा जिणभासा परिणमे एवं // 577 // वर्षोदकस्य वाशब्दादन्यस्य वा यथैकरूपस्य सतो वर्णादयो भवन्ति, भाजनविशेषात, एवं सर्वेषामपि श्रोतॄणां शखभाषया जिनभाषा परिणमते // 577 // अर्हद्वाचः सौभाग्यगुणमाह साहारणासवत्ते तदुवओगो उ गाहगगिराए / न य निविज्जइ सोया किढिवाणियदासिआहरणा // 578 // साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणमनात्, असपत्ना-अद्वितीया, तस्यां साधारणासपत्नायां सत्यां, तस्यामुप B88& // 305 //