SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरक चूर्णिः समवसरणवक्तव्यता नि० गा. // 301 // भा० गा० 116-119 क्रियाऽध्याहारः। मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्द्य तीर्थ केवलिनश्च पुनः केवलिनः पृष्ठतो निषीदन्ति, आदिशब्दानिरतिशयसंयता मनःपर्यायज्ञानिनां पृष्ठतः, तथा वैमानिकदेव्यः साधुपृष्ठतस्तिष्ठन्ति न निषीदन्ति, तथा श्रमण्यो वैमानिकदेवीपृष्ठतस्तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्यो दक्षिणपश्चिमदिग्भागे तिष्ठन्ति / एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं // 559 // भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य / वेमाणिया य मणुया पयाहिणं जं च निस्साए // 56 // भवनपतयो ज्योतिष्का व्यन्तरसुराश्च यथोपन्यासमेव उत्तरपश्चिमे पार्थे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याः स्त्रियश्च प्रदक्षिणां कृत्वा तीर्थकरादीन्नत्वोत्तरपूर्वे दिग्भागे तिष्ठन्ति यथासङ्ख्यमेव / सर्वा एव देव्यो न निषीदन्ति / देवाः पुरुषाः स्त्रियश्च निषीदन्तीति केचित् / 'जं च निस्साए त्ति यः परिवारो यं च निश्रां कृत्वायातः स तत्पार्चे एव तिष्ठति // 560 // उक्तमेवार्थ संयतादिपूर्वद्वारादिप्रवेशविशिष्टमाह भाष्यकार:संजयवेमाणित्थी संजइ पुव्वेण पविसिडं वीरं / काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभागे॥११६॥ (भा०) जोइसियभवणवंतरदेवीओ दक्खिणेण पविसंति। चिट्ठति दक्षिणावरदिसिंमि तिगुणं जिणं काउं॥११७॥(भा०) अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं। अवरुत्तरदिसिभागे ठंति जिणं तो नमंसित्ता॥११८॥ (भा०) समहिंदा कप्पसुरा राया णरणारिओ उदीणेणं / पविसित्ता पुव्वुत्तरदिसीए चिट्ठति पंजलिआ॥ 119 // (भा०) उदीच्येनोत्तरेणेत्यर्थः, प्राञ्जलयः॥११६-११९॥ उक्तार्थोपसङ्ग्रहमाह / 301 // आ०चू०२६
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy