SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव- चूर्णिः // 293 // उपसर्गाः नि० गा० 524-255 मन्यते इत्यादिजीवस्थापन, पुनरपि पृच्छा-भगवन् किं प्रदेशनं ? किं प्रत्याख्यान ? स्वाम्याह-द्विधा प्रदेशनं धार्मिकमधार्मिक च, प्रदेशनकं नाम प्रदेशः, द्विविधं प्रत्याख्यानं-मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, विप्रो यक्षौ च बुद्धाः॥५२३॥ जंभियगामे नाणस्स उप्पया वागरेइ देविंदो। मिढियगामे चमरो वंदणं पियपुच्छणं कुणइ // 524 // ततः स्वामिनो जृम्भिकाग्रामं गतस्य देवेन्द्र आगत्य नाव्यविधि दर्शयित्वा व्याकरोति-यथेयनिर्दिननिस्योत्पत्तिर्भविष्यति, ततो मिण्ढिकग्रामे चमरो वन्दनं प्रियपृच्छां करोति // 524 // छम्माणि गोव कडसल पवेसणं मज्झिमाए पावाए / खरओ विज सिद्धत्थ वाणियओ नीहरावेइ // 25 // ततः षण्माणीग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्श्वे गोपो गा मुक्त्वा ग्राम प्रविष्टः, आगतश्च पृच्छति-देवार्यक गताः? नात्र दृश्यन्ते, मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशलाकाग्रप्रवेशनं कृतं / ते च शलाके तथा प्रक्षिप्ते यथा मिथो लग्ने, अग्रे छित्त्वादृश्ये कृते, त्रिपृष्ठेन शय्यापालस्य कर्णयोस्तप्तत्रपुप्रक्षेपयता यत्कार्जितं तदुदीर्ण वीरभवे, शय्यापालको भवं भ्रान्त्वा गोपः / ततः स्वामी मध्यमापापायां गतः, सिद्धार्थवणिग्गेहे भिक्षार्थ तत्रागतः खरकवैद्यो दृष्ट्वा स्वामिनं सशल्यं ज्ञातवान् / वणिग् वैद्यात्ते शलाके निर्गमयति स्म, सण्डासाभ्यां गृहीत्वा कृष्टे उद्याने गत्वा, स्वामिना तदाकर्षणे आराटिमुक्ता, तत्र महाभैरवमुद्यानं जातं देवकुलं च, संरोहणौषधेन तदैव स्वामी प्रगुणोऽभूत् / सर्वेषु किलोपसर्गेषु के दुर्विषहाः!, उच्यते, जघन्येषु कटपूतनाव्यन्तरीशीतं, मध्यमेषु कालचक्रं, उत्कृष्टेषु शल्योद्धरणं कर्णयोः। एवमुपसर्गा गोपेनारब्धा गोपेनैव च निष्ठिताः। गोपः सप्तमपृथिव्यां गतः, खरकः सिद्धार्थश्च स्वर्गतौ // 525 // *XXX88888 // 293 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy