SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपसर्गाः आवश्यकनिर्युक्तेरव चूर्णिः // 292 // नि० गा० AI 522-523 * * सुता दासत्वमाप्ता निगडिता रुदती मुण्डितमस्तका अष्टमभक्तिका, चेद्दास्यति तदा ग्रहिष्यामीति परीषहसहनार्थ, स्वामिनो गोचरचर्या हिण्डतश्चत्वारो मासा जाताः, नन्दादिभिरुपक्रान्तं परं स्वामी केनापि प्रकारेण न गृह्णाति / इतश्च चम्पेशदधिवाहनधारिणीसुता वसुमती चन्दनबालेति द्वितीयनाम्नी दैवयोगाद्धनावहश्रेष्ठिगृहे वर्तते / तद्भार्या मूला सावलोकनगता चन्दनां श्रेष्ठिपादौ प्रक्षालयन्ती श्रेष्ठिनं च तत्केशरचनापरमऽपश्यत् , ततो मूलादत्तदुःखस्थया चन्दनया स्वामी प्रतिलाभितः, पञ्च दिव्यानि, केशास्तदवस्था एव जाता, निगडानि स्वर्णनू पुराणि जातानि / शक आगात् , सान्तःपुरो राजाप्याऽज्गात् / तत्र सम्पुलो नाम दधिवाहनकञ्चुकी दृष्ट्वा तत्पादयोर्निपत्य प्ररुन्नः, मृगावत्या भगिनी पद्मावती दधिवाहनेनोढा / धारिणी च पद्मावत्याः सपत्नीति कृत्वा धारिण्यपि मृगावत्या भगिन्येव / ततः शक्रेण तस्याः शतानीकस्य दानं उक्तं च-सङ्कोपयैतां यावत्स्वामिनो ज्ञानमुत्पद्यते, ततः प्रव्रज्यां गृहीष्यत्येषा, पञ्चदिनोनया षण्मास्या स्वामिना भिक्षा लब्धा // 520-521 // तत्तो सुमंलाए सणंकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा // 522 // ततः सुमङ्गलग्रामे स्वामिवन्दनाय सनत्कुमार आगात्, ततः सुक्षेत्रे माहेन्द्रः, ततो वालुका(पालक)ग्रामे वाइलवणिग् | यात्रायां गच्छन् स्वामिनं दृष्ट्वाऽमङ्गलमिति कृत्वात्मनः असिना घाताय धावन् सिद्धार्थेन हतः॥ 522 // चंपा वासावासं जक्खिंद साइदत्त पुच्छा य / वागरण दुह पएसण पञ्चक्खाणे य दुविहे अ॥५२३ // ततःस्वामी चम्पायां स्वातिदत्तद्विजस्याग्निहोत्रशालायां वर्षावासं तस्थौ / चतुर्मासांस्तत्र क्षपयति।रात्रौ रात्रौ पूर्णभद्रमाणिभद्रौ यक्षेन्द्रौ स्वामिनः पर्युपास्तिं कुर्वाणौ दृष्ट्वा विस्मितेन स्वातिदत्तेन पृच्छा कृता-को ह्यात्मेति, स्वामिना व्याकरणं योऽहमभि का // 292 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy