________________ आवश्यकनियुक्तेरव चूर्णिः सङ्गमस्य उपसर्गाः नि० गा० 509-511 नैव प्रविशामीति विचिन्त्य बहिरेव एकान्ते प्रतिमयाऽस्थात् / ततः सङ्गमकेनोपहसनं यथा न शक्नोमि त्वां चालयितुमिति विलोकयामि तावदेहि ग्राम, प्रतिमया स्थितं स्वामिनं श्मशाने शक आगत्य 'जत्ता भे? जवणिजं च भे? अबाबाह' मित्यादिपृच्छां पप्रच्छ // 508 // तोसलि कसीसरूवं संधिच्छेओ इमोत्ति वज्झो य / मोएइ इंदालिउ तत्थ महाभूइलो नाम // 509 // ततः स्वामी को(तो)सलिसन्निवेशे बहिःप्रतिमयाऽस्थात् , ततः सुरो दध्यौ, नार्य प्रविशति, अधुनाऽस्यात्रस्थस्यैव करोम्युपसर्ग.। ततः शिष्यरूपं विकुळ खात्रं पातयन् जनैहेतः प्राह सुरः-अहं किं जाने ? गुरुणा प्रेषितोऽहं, ततः सन्धिच्छेदोऽयमेतद्र्वध्य इति कृत्वा नीयमानं स्वामिनं दृष्ट्वा उपलक्ष्य मोचयतीन्द्रजालिकस्तत्र महाभूतिलो नाम // 509 // मोसलि संधि सुमागह मोएई रहिओ पिउवयंसो / तोसलि य सत्त रजूवावत्ती तोसलीमोक्खो॥ 510 // मोसलिसन्निवेशे बहिः प्रतिमास्थस्वामिपार्श्वे खात्रखनकोपकरणानि विकुळ, क्षुल्लकादर्शने ज्ञातं सुरचेष्टितं // 510 // सिद्धत्थपुरे तेणुत्ति कोसिओ आसवाणिओ मोक्खो। वयगाम हिंडऽणेसण बिइयदिणे बेइ उवसंतो // 511 // ततः सिद्धार्थपुरे तथैव स्तेन इति कृत्वा गृहीतस्तत्राश्ववणिक्कोशिकस्तेनोपलक्ष्य मोक्षः कारितः / ततः स्वामी ब्रजग्राम गोकुलं गतः। तत्र च तद्दिने सर्वत्र परमान्नमस्ति / उपसर्गान् कृत्वा चिरं स्थितस्य सुरस्य (ते सुरे)स्वामी चिन्तयति षण्मास्य | (सा गताः) स गतो भविष्यति, ततो हिण्डस्तत्कृतामनेषणां दृष्ट्वा स्वामी उपयुक्तो ज्ञात्वा अर्द्धहिण्डित एवाऽऽगत्य बहिः प्रतिमां स्थितः। अवधिना शुद्धपरिणामं खामिनं ज्ञात्वा द्वितीयदिने उपशान्तः सन् सुरो ब्रूते // 511 // // 289 // आ०चू०२५