________________ आवश्यकनिर्युक्तेरव चूर्णिः मगधवैशाल्यादिषु विहारः नि० गा० 494-496 // 285 // च, तन्माता चम्पायां चौरैर्विक्रीता वेश्या जाता, स तत्र यौवने 'तां' गच्छन् गोवत्सरूपदेवीसङ्केतेन मातरं ज्ञात्वा विमोच्य | च प्राणायामा(मिका) दीक्षां जग्राह / स वैश्यायनर्षिः कूर्मग्रामे आतापनां करोति, तस्य यूकाशय्यातर इति कथनेन गोशाले कोपनं, प्रद्विष्टः स तेजोलेश्यां मुक्तवान् , स्वामी च गोशालरक्षायै शीतलेश्यां च, आतापनापरस्य सदा षष्ठतपःसनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारयतः षण्मास्या उत्पद्यते तेजोलेश्येति. सिद्धार्थोक्तोपायैः पृथग्भूतः श्रावस्त्यां कुम्भकारशालास्थितस्तां साधितवान् , अष्टाङ्गनिमित्तं शिक्षितं, ततोऽजिनो जिनप्रलापी भ्रमति गोशालः // 493 // वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया। पूएइ संखनामो चित्तो नावाए भगिणिसुओ // 494 // वैशाल्यां स्वामिनं प्रतिमास्थं शखो नाम गणराजः पितृवयस्यः सिद्धार्थनृपतिमित्रं पूजितवान्, ततः स्वामिनं द(ग)ण्डकिकानद्यान्तरं पण्ये मूल्ये याच्यमाने नाविकै वा उत्तीर्णे शङ्खराजस्य भगिनीसुतश्चात्र आगच्छन् मोचितवान् // 494 // वाणियगामायावण आनंदो ओहि परीसह सहिति / सावत्थी वासं चित्ततवो साणुलहि बहिं // 495 // वाणिज्यग्रामे सदा षष्ठभोजिन आतापयत आनन्दश्रावकस्यावधिरुत्पन्नः, स स्वामिनं दृष्ट्वा अहो परीषहसह ! इति स्तुतिपरोऽचिरेण स्वामिन् ! केवलमुत्पस्यते इत्यायुक्तवान् / ततः स्वामी श्रावस्त्यां दशमं वर्षारात्रं विचित्रं च तपोऽकरोत् , ततः सानुय(ल)ष्ठिग्रामे बहिरस्थात् // 495 // पडिमा भद्द महाभद्द सव्वओभद्द पढमिआ चउरो / अट्ठयवीसाणंदे बहुलिय तह उज्झिए दिव्वा // 496 // आद्या भद्रप्रतिमा तस्यां दिने पूर्वाभिमुखं स्थीयते, पश्चाद्रात्रौ दक्षिणाभिमुखं, पश्चिमाभिमुखं दिने, रात्रावुत्तरे (राभिमुखं) // 285 //