________________ आवश्यकनिर्युक्तेरव चूर्णिः गोभूमिराजगृहादिषु विहारः | नि० गा० 491-493 // 284 // वचसा ज्ञात्वा स्वामिनमर्चति स्म प्रतिमास्थं, ततो मल्लीजिनायतनप्रतिमां च / ततः स्वामी उन्नाकसन्निवेशे याति तत्रान्तरा 'बहुगोट्ठी' गोशालेन सम्मुखाऽऽगच्छद्दन्तुरवधूवरहसनं, तैः कुद्दयित्वा वंशजाल्यां स क्षिप्तः, स्वामिछत्रधरत्वान्मुक्तश्च॥४९॥ गोभूमि वजलाढे गोवक्कोवे य वंसि जिणुवसमे / रायगिहऽट्टमवासं वजभूभी बहुवसग्गा // 491 // ततः स्वामी गोभूमि याति, तत्रान्तराऽटव्यां बहुगावश्चरन्ति, तेन गोभूमिरेषा, अत्र गोशालो गोपान् अरे! वज्रलाढा:म्लेच्छाः! इत्याक्रोश्य मार्ग पप्रच्छ, तेषां कोपः, तैर्वशजाल्यां क्षिप्तः जिनस्याऽयमित्युपशमे मुक्तः / ततो राजगृहे स्वाम्यष्टमवर्षा अकरोत् चतुर्मासकतपश्चके, बहिः पारयित्वा वज्रभूमिबहूपसर्गेति कृत्वा तत्र गतः स्वामी नवमवर्षारानं च कृतवान् , वर्षाकालश्चतुर्विधाहाररहित आसीदपरं च मासद्वयं तत्रैव निरशनो विहृत इति षण्मासिकं क्षपणमिहाभूत् // 491 // अनिअयवासं सिद्धत्थपुरं तिलत्थंब पुच्छ निष्फत्ती / उप्पाडेइ अणज्जो गोसालो वास बहुलाए // 492 // वसत्यभावेनाऽनियतवासमकार्षीत्, ततः सिद्धार्थपुरं गतः, ततः कूर्मग्रामं प्रस्थितः स्वामी, तत्रान्तरा तिलस्तम्भस्तं दृष्टा गोशालः पप्रच्छ-भगवन् ! 'अयं निष्पत्स्यते न वा', स्वामिना एते सप्त तिलपुष्पजीवा मृत्वा एकशम्ब्यां तिला भविप्यन्तीति, निष्पत्तिरित्युक्ते उत्पाटयति अनार्यो गोशालस्तं, ततो व्यन्तरवृष्टिश्चक्रे, बहुलया गवा क्षुरेण क्षिप्तः प्रतिष्ठितः, पुनर्वलता कियद्भिर्दिनैदृष्टः तिलस्तथैव, नियतिर्गाढीकृता // 492 // मगहा गोबरगामो गोसंखी वेसियाण पाणामा / कुम्मग्गामायावण गोसाले गोवण पउढे॥ 493 // मगधायां राजगृहचम्पयोरन्तरा गोबरग्रामे गोशङ्खी कौटुम्बिकस्तेनासन्नभग्नग्रामवहिरपत्यं दृष्ट्वाऽपुत्रत्वाद्वहीतं वर्द्धितं / / 284 //