________________ आवश्यकनियुक्तेरव- चूर्णिः // 283 // भद्रिकामगधादिषु विहारः नि० गा० 488-490 ततः स्वामी भद्रिकानगरे गतः, तत्र षष्ठवर्षासु चतुर्मासतपो विचित्रांश्चाभिग्रहानकरोत् / तत्र पुनरपि षण्मासान्ते | गोशालो मिलितः। ततः स्वामी बहिः पारयित्वा मगधायां निरुपसर्ग ऋतुबद्धे मुनिर्विहृतवान् // 487 // आलभिआए वासं कुंडागे तह देउले पराहुत्तो। मद्दण देउल सागारिअं मुहमूले दोसुवि मुणित्ति // 488 // तत आलभिकानगरी सप्तमवर्षा उपागतः स्वामी चतुर्मासक्षपणेन, ततो बहिः पारयित्वा कुण्डाकसन्निवेशे वासुदेवकुले स्वामी प्रतिमां स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टितश्च / ततो मर्दनाग्रामे बलदेवदेवकुले कोणे स्वामी प्रतिमया तस्थौ, गोशालो बलदेवमुखमूले सागारिक-मेहनं कृत्वा तस्थौ, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा जनैर्मुक्तः॥४८८॥ बहूसालगसालवणे कडपूअण पडिम विग्घणोवसमे / लोहग्गलंमि चारिय जिअसत्तू उप्पले मोक्खो॥ 489 // . ततः स्वामी बहुशालकग्रामे शालवनोद्याने प्रतिमया तस्थौ / तत्र कटकपूतना व्यन्तरी विघ्नोपशमे महिमामकार्षीत् / ततः स्वामी लोहार्गले, चारनरैश्चारिक इति कृत्वा जितशत्रुपाचे सगोशाल उपनीतः / तत्र पूर्वमेवास्थिकयामागत * उत्पल आसीत् तेव मोक्षश्चक्रे // 489 // तत्तो य पुरिमताले वग्गुर ईसाण अच्चए पडिमा / मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोट्ठी / / 490 // ततः स्वामी पुरिमताले गतः, तत्र शकटमुखोद्यानस्य पुरस्य चान्तरा प्रतिमया तस्थौ / वग्गुरश्रेष्ठी सभद्राभार्य उद्यानस्थमल्लीजिनजीर्णायतनप्रतिमां नमस्कृतवान् सतानाय नव्याऽऽयतनविधापनादिभिरारराध च। जाते गर्भेऽन्यदा यांस्तत्र ईशानेन्द्र * // 283 //