________________ आवश्यकनियुक्तेरव चूर्णिः तम्बाकवैशाल्यादिषु विहार | नि० गा० 485-487 // 282 // 3333REKX****kkkkkk*** ततः स्वामी तम्बाकग्रामं गतः, तत्र पार्थापत्यीयो नन्दिषेण आचार्यों बहुशिष्यः, तस्य प्रतिमास्थस्याऽऽरक्षकपुत्रेण चौरभयेन रात्रौ भल्लेन हननं, अवधिर्जातः, शेषं मुनिचन्द्रवत् , दहनमुपाश्रयस्येत्याद्यवादीद्गोशालः। ततः स्वामी कूपिकसन्निवेशं गतः, तत्र चारिक इति कृत्वा गृहीतः, तत्र विजयाप्रगल्भे च पार्थान्तेवासिन्यौ द्वे प्रवाजिके ज्ञात्वा ताभ्यां स्वामिनो मोक्षश्चक्रे, 'पत्तेति पृथग्भूतौ स्वामी गोशालश्च // 484 // तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया। भगवं वेसालीए कम्मार घणेण देविंदो // 485 // अन्यस्मिन्पथि गच्छन् गोशालः स्तेनैर्ग्रहीतः, पञ्चशतैरपि तैर्मातुल इति कृत्वा वाहनया(नेन) खिन्नो अचिन्तयत्-वरं | स्वामिनैव सार्द्ध गमनमिति स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गतः, अयस्कारशालायां स्थितः प्रतिमया, तत्रैकः कर्मकरोऽयस्करः षण्मासं यावद्रोगी भूत्वा आरोग्यः सन्नुपकरणानि गृहीत्वा शालामाऽऽगात् , स्वामिनं दृष्ट्वाऽमङ्गलमिति विचिन्त्य घनेन हन्तुं उद्यतोऽभूत् देवेन्द्रो ज्ञात्वाऽऽगत्य तेनैव तं जघान // 485 // गामाग बिहेलग जक्ख तावसी उवसमावसाण थुई / छटेण सालिसीसे विसुज्झमाणस्स लोगोही // 486 // ततः स्वामी ग्रामाकसन्निवेशं गतः, तत्रोद्याने बिभेलकयक्षो महिमां चक्रे / ततः शालिशीर्षग्राम उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवाऽपमानितान्तःपुरी मृत्वा व्यन्तरी जाता तापसीरूपं कृत्वा जलभृतजटाभिरन्याऽसह्यमुपसर्ग चक्रे, उपशमावसाने स्तुतिं च, तद्वेदनामधिसहमानस्य षष्ठेन तपसा विशुद्धमानस्य लोकावधिरुत्पेदे // 486 // पुणरवि भद्दिअनगरे तवं विचित्तं च छट्ठवासंमि / मगहाए निरुवसग्गं मुणि उउबद्धंमि विहरित्था // 487 // // 282 //