________________ | कुमाराके प्रभोरुपसर्गः आवश्यकनिर्युक्तेरव चूर्णिः // 279 // चरमद्विमासपारणकं चम्पाया बहिः कृत्वा कालायां सन्निवेशे स्वामी गतः, शून्यगृहे स्वामी प्रतिमां स्थितः, गोशालेन तत्रैव शून्यागारे सिंहो ग्रामणीपुत्रो विद्युन्मतीगोष्ठीदास्या समं क्रीडन् हसितः, तेन कुट्टितः, स्वामिनमाह-अहमेकाक्येव कुट्टितो यूयं किं न वारयत, सिद्धार्थः प्राह-मैवं कुर्याः, ततः स्वामी पात्रालके गतः, शून्यागारे तस्थौ, तत्र स्कन्दः स्वदास्या दन्तिलिकया समं तत्राऽऽगात्तथैव च जातं // 476 // मुणिचंद कुमाराए कूवणय चंपरमणिजउज्जाणे / चोराय चारि अगडे सोमजयंती उवसमेइ // 477 // ततः स्वामी कुमारक सन्निवेशं गतः, चम्परमणीये उद्याने प्रतिमया स्थितः, इतश्च मुनिचन्द्रः श्रीपार्श्वशिष्यो बहुशिष्ययुतस्तत्रैव कूपनककुम्भकारशालायां तस्थौ, तत्साधून दृष्टा गोशालः प्राह-के यूयं ?, तैरुक्तं निग्रन्थाः, ततः पुनराह-क यूयं ? व ममाचार्यः?, तैरूचे-यादृशस्त्वं तादृशस्ते धर्माचार्योऽपि भविष्यति, ततो रुष्टेनोक्तं मे धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरुक्तं नैतदू भयमस्माकं, ततो स्वामिनः सर्वमुक्तं, सिद्धार्थेनोचे-नैते साधवो दह्यन्ते, रात्रौ जिनकल्पतुलनां कुर्वाणः प्रतिमास्थो मुनिचन्द्रो मत्तेन कुम्भकारेण तेन व्यापादितश्चौरभ्रान्त्या, अवधिज्ञानमुत्पन्नं स्वर्गतः, महिमार्थमायातसुरोद्योतं दृष्ट्वा उपाश्रयो दह्यतेऽमीषामित्युवाच स्वामिनं, गोशालः सिद्धार्थेन यथावत्कथने तत्र गत्वा तच्छिष्यान्निर्भयाऽऽयातः, ततः स्वामी चौरायां गतः, तत्र चारिकी हेरिकाविति कृत्वा आरक्षिका अगडे प्रक्षिपन्त्युत्तारयन्ति च, तत्र प्रथममेव गोशालः क्षिप्तः, स्वामी तु नाद्यापि तावता तत्र सोमाजयन्तीनाम्यौ उत्पलभगिन्यौ संयमाऽक्षमतया प्रवाजिकीभूते ज्ञात्वा तमुपसर्गमुपशामयतः // 477 // पिट्टीचंपा वासं तत्थ चउम्मासिएण खमणेणं / कयंगल देउलवरिसे दरिद्दथेरा य गोसालो॥ 478 // का॥२७९॥