________________ आवश्यकनिर्युक्तेरक चूर्णिः // 278 // विजयो विपुलभोजनविधिना प्रतिलाभितवान् , तत्र पञ्च दिव्यानि दृष्ट्वा गोशालः तव शिष्योऽस्मीति स्वामिनमाह, द्वितीयपारणके आनन्दः खाद्यकविधिना पक्वान्नेन, तृतीये सुनन्दः सर्वकामगुणितेन परमान्नादिना प्रतिलाभितवान् // 473 // . कुल्लाग बहुल पायस दिव्वा गोसाल दट्ट पव्वजा / बाहिं सुवण्णखलए पायसथाली नियइगहणं / / 474 // ततः स्वामी चतुर्मासक्षपणपारणके कोल्लाकसन्निवेशे गतः, तत्र बहुलद्विजः पायसं दत्तवान् स्वामिनः (ने), दिव्यानि, गोशालस्तन्त्वाक(न्तुवाय)शालायां स्वामिनमदृष्ट्वा राजगृहेऽन्तो बहिश्च गवेषयन् स्वोपकरणं द्विजेभ्यो दत्त्वा समुखं शिरो मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा त्वत्प्रव्रज्याऽस्तु ममेत्युक्तवान् / स्वामी सगोशालः सुवर्णखलग्रामं याति, तस्माद्बहिर्गोपैः पायसं महास्थाल्यां पच्यमानं दृष्ट्वा गौशालः स्वामिनमाह-आगम्यतां भुज्यतेऽत्र, सिद्धार्थेन तद्भङ्गकथने गोपैः प्रयत्नरक्षितापि पायसस्थाली भग्ना, निवतेग्रहणं, यद्भाव्यं तद्भवत्येवेति गोशालेन मतम् // 474 // बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे / चंपा दुमासखमणे वासावासं मुणी खमइ // 47 // ततो ब्राह्मणग्रामे स्वामी जगाम, तत्र नन्दोपनन्दौ भ्रातरौ, ग्रामस्य द्वौ पाटको, एको नन्दस्यान्य उपनन्दस्य, स्वामी नन्दपाटके प्रविष्टः प्रतिलाभितश्च नन्देन, गोशाल उपचन्दगृहे पर्युषिताऽन्नदानाद्गुष्टो मे धर्माचार्यस्य यद्यस्ति तपस्सेजस्तदास्य गृहं दह्यतामिति शापमदात् / ततो ग्रामस्य प्रत्यर्द्ध (ततो यथासन्निहितैर्वानमन्तरैः) तद्नुहं दग्धं, ततः स्वामी चम्पां गतः, तत्र द्विमासक्षपणेन वर्षावासं मुनिः क्षपयति // 475 // कालाए सुण्णगारे सीहो विज्जुमई गोहिदासी य / खंदो दंतिलियाए पत्तालग सुण्णगारंमि // 476 // कोल्लाकसुवर्णखलनामपत्राक. चम्पासु विहारः गोशालनि| यतिग्रहश्च नि० गा० 474-476 | // 278 //