________________ + आवश्यक नियुक्तेरव चूर्णिः गोशालक मीलनं | नि० गा० 472-473 // 277 // ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा नदी सिद्धयात्रो नाविकस्तदा लोके नावमारोहति कौशिकवासितं श्रुत्वा विद्वान खेमिल उवाच-मारणान्तं विघ्नं प्राप्यं परमेतन्मुनिप्रभावान्मोक्षामहे, नागकुमारः सुदंष्ट्रः खामिन नावारूढं दृष्ट्वा प्रद्विष्टः, सच सिंहो विदारितस्त्रिपृष्ठभवे, कम्बलशम्बलौ चागत्य सुदंष्ट्रं तिरस्कृत्य चक्रतुर्जिनमहिमां // 469 // तयोरुत्पत्तिरेवंमथुरायां जिनदासः श्राद्धः, आभीरविवाहोऽअनि, तत्र जिनदासेनोपकृते आभीरैः लष्टौ द्वौ गवावानीय तद्गृहे बद्धौ, अष्टम्यादिषु ताभ्यां श्रेष्ठिवदुपवासः क्रियते, भण्डीरो यक्षस्तद्यात्रायां मित्रस्तावऽवाहयत्, श्रेष्ठी तौ व्यथितावपत्य इव दृष्टा दुःखितः, | भक्तं पानीयं चानिच्छन्तौ गृहीताऽनशनौ नागौ जाती, अवधेात्वाऽऽगमनं तयोः॥ 470 // कृतवानुपसर्ग मिथ्यादृष्टिः, 'परद्धं' विक्षिप्तं भगवन्तं कम्बलशम्बली समुत्तारितवन्तौ // 471 // थूणाए बहिं पूसो लक्खणमब्भंतरं च देविंदो। रायगिहि तंतुसाला मासक्खमणं च गोसालो // 472 // ततो नदीपुलिनप्रतिबिम्बितस्वामिसल्लक्षणपदानुसारेण वजन् स्थूणायां बहिः प्रतिमास्थं भगवन्तं पुष्पः सामुद्रिकवेदी दृष्ट्वा लक्षणशास्त्रं निनिन्द, इतश्चावधिना ज्ञात्वा देवेन्द्र आगत्य उवाच-पुष्प ! लक्षणं न जानासि, अपरिमितलक्षणोऽयं धर्मचक्रवर्ती, ततो लक्षणमभ्यन्तरं च गोक्षीरगौरं रुधिरं प्रशस्तमित्यादि कथितवान् , ततः स्वामी राजगृहे नालन्दायां तन्त्वाक(तन्तुबाय) शालैकदेशेऽनुज्ञाप्याऽऽद्यमासक्षपणमुपसम्पद्य तस्थौ, तत्र गोशाल आगात् // 472 // तस्यैवमुत्पत्तिःमंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो / विजयाणंदसुणंदे भोअण खजे अकामगुणे // 473 // मडलिनामा मजस्तस्य सुभद्रा भार्या शरवणविषये गोबहुलद्विजस्य गोशालायां प्रसूतेति गोशालः, स्वामिनं पारणके 44 | // 27 // आ०चू०२४