________________ आवश्यकनियुक्तेरव चूर्णिः // 265 // जन्म जन्माभिषेकश्च भा. मा. अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि / हत्युत्तराहिं जाओ कुण्डग्गामे महावीरो॥६१॥ (भा०) 'अथ' अनन्तरं चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले आद्ययामद्वयान्ते इत्यर्थः, हस्तोत्तरायां जातः, हस्त उत्तरो यासां ता हस्तोत्तराः, उत्तराफाल्गुन्य इत्यर्थः, कुण्डग्रामे महावीरः // 61 // दिक्कुमार्याद्यागमनं पूर्ववत् , किश्चिच्चाहआभरणरयणवासं वुडं तित्थंकरंमि जायंमि / सको य देवराया उवागओ आगया निहओ॥ 2 // (भा०) आभरणानि-कटककेयूरादीनि रत्नानि-इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैच, तथाऽऽगताः पद्मादयो निधयः॥ 62 // तुट्ठाओ देवीओ देवा आणंदिआ सपरिसागा। भयवंमि वद्धमाणे तेलुकसुहावहे जाए // 63 // (भा०) तुष्टा देव्यः देवा आनन्दिताः सपर्षदः, भगवति वर्द्धमाने त्रैलोक्यसुखावहे जाते सति // 63 // अथाभिषेकद्वारमाहभवणवइवाणमंतरजोइसवासी विमाणवासी अ। सव्विड्डीइ सपरिसा चउब्विहा आगया देवा // 64 // (भा०) भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्च ते, तथा विमानवासिनश्च सर्वा सपर्षदश्चतुर्विधा आगता देवाः // 64 // देवेहिं संपरिखुडो देविंदो गिहिऊण तित्थयरं / नेऊण मंदरगिरि अभिसेअंतत्थ कासीअ॥६५॥ (भा०) देवैः संपरिवृतः देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिमभिषेकं तत्र कृतवान् // 65 // काऊण य अभिसेअं देविंदो देवदाणवेहि समं / जणणीइ समप्पित्ता जम्मणमहिमं च कासीअ॥६६॥ कृत्वा चाभिषेकं देवेन्द्रो देवदानवैः सार्द्ध, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् च व्यन्तरभवनपतीनां, | // 265 // मा०चू०२३