________________ महावीर वक्तव्यता आवश्यकनियुक्तेरव चूर्णिः // 261 // द्वाराणि नि० गा. 50-60 पब्वज पुहिले सयसहस्स सब्वत्थ मासभत्तेणं / पुप्फुत्तरि उववण्णो तओ चुओ माहणकुलंमि // 450 // राज्यं विहाय प्रव्रज्यां कृतवान् , पोटिलाचार्यसमीपे वर्षलक्षं यावत् , कथं? सर्वत्र मासभक्तन-मासोपवासेन पारणं, अस्मिन् भवे विंशत्या स्थानकैस्तीर्थकरनामकर्म निकाचयित्वा मासिकया संलेखनया मृत्वा प्राणतकल्पे पुष्पोत्तरावतंसके विंशतिसागरायुर्देवः समुत्पन्नः, ततश्चयुतो ब्राह्मणकुले उत्पन्नः॥ 450 // अरिहंतसिद्धपवयण०॥४५१॥दसण०॥४५२॥ अप्पुव्व०॥४५३॥ पुरिमेण ॥४५४॥तंच कहं॥४५५॥ निअमा०॥४५६ | एताः षडपि ऋषभदेवाधिकारे व्याख्याताः॥ माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि / तस्स घरे उववण्णो देवाणंदाइ कच्छिसि // 457 // ब्राह्मणकुण्डग्रामे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताख्योऽस्ति, तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षौ // 457 // वर्द्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाहसुमिणमवहारऽभिग्गह जम्म॑णमभिसे बुडि सँरणं च / भेसण विवाह वचे दाणे संबोह निक्खैमणे // 458 // महास्वप्ना वक्तव्या यांस्तीर्थकरजनन्यः पश्यन्ति, यथा देवानन्दया प्रविशन्तो निष्क्रामन्तश्च दृष्टास्त्रिशलया च प्रविशन्तः, अपहारो वक्तव्यो, यथा भगवानपहृतः, अभिग्रहो यथा भगवता गर्भस्थेनैव गृहीतः, जन्मविधिर्वक्तव्यः, अभिषेको यथा विबुधाः कुर्वन्ति, वृद्धिर्यथा भगवान् वृद्धिं जगाम, स्मरमिति जातिस्मरणं, 'भेसण'त्ति यथा देवेन भेषितः, विवाहविधिः, अपत्यं पुत्रादि, दानं निष्क्रमणकालसत्कं, सम्बोधनविधिर्यथा लौकान्तिकाः सम्बोधयन्ति, निष्क्रमणे च यो विधिरसौ // 261 //