SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव महावीर भवाः नि०या० 447-450 चूर्णिः // 26 // साधुः गोत्रासितो गवा अवघृष्य पातितः, विशाखनन्दिना च हसितः-क्व गतं ते बलं कपित्थपातनमिति, तेन कुपितेन | शृङ्गे धृत्वा भ्रामिता गौः निदानं च चकार, यद्येतत्तपसः फलमस्ति तदाऽग्रेतनभवेऽपरिमितबलो भवामि, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रे कल्पे उत्पन्न उत्कृष्टायुर्देवः, ततश्च्युतः पोतनपुरे नगरे // 446 // * पुत्तो पयावइस्सा मिआवईदेविकुच्छिसंभूओ / नामेण तिविहुत्ती आई आसी दसाराणं // 447 // पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसम्भूतः नाम्ना त्रिपृष्ठः, आदिः प्रथम आसीदशाराणां // 447 // चुलसीईमप्पइट्टे सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवही मूआइ विदेहि चुलसीई // 448 // वासुदेवभवे चतुरशीतिवर्षलक्षाण्यायुरनुभूय सप्तमपृथ्व्यामप्रतिष्ठाने नरकावासे त्रयस्त्रिंशत्सागरायुनारकोऽभूत् तत उद्धृत्य सिंहो बभूव, मृत्वा च पुनर्नरके उत्पन्नः, पुनः कतिचिद्भवास्तिर्यग्मनुष्येषु उत्पद्य अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेर्धारिणीदेव्याः प्रियमित्राभिधानश्चक्री समुत्पन्नः, चतुरशीतिपूर्वलक्षाण्यायुः॥४४८॥ पुत्तो धणंजयस्सा पुटिल परिआउ कोडि सव्वढे / णंदण छत्तग्गाए पणवीसाउं सयसहस्सा // 449 // धनञ्जयस्य पुत्रश्चक्रिभोगान् भुक्त्वा कथञ्चित्सञ्जातसंवेगः पोट्टिलाचार्यान्तिके प्रत्रजितः, प्रव्रज्यापर्यायो वर्षकोटिबभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरायुर्देवोऽभवत् , ततश्च्युत्वा छत्रापायां नगर्या जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्नः, तत्र पञ्चविंशतिवर्षलक्षाण्यायुरासीत् // 449 // तत्र च बाल एव राज्यं चकार, चतुर्विंशतिवर्षलक्षाणि राज्यं कृत्वा ततः 260 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy