SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः महावीर भवाः नि० गा० 444-446 // 259 // ततश्युतः संसृत्य कियन्तमपि कालं संसारे स्थावरो नाम ब्राह्मणो राजगृहे समुत्पन्नः, तत्र चतुस्त्रिंशत्पूर्वलक्षाण्यायुः परिव्राजकश्चासीत् , मृत्वा ब्रह्मलोके मध्यमस्थितिर्देवः, एवं षट्स्वपि वारासु परिव्राजकत्वमधिकृत्य दिवं गतः, ततश्चयुत्वा प्रभूतं कालं संसारे भ्रान्तः॥४४३ // रायगिह विस्सनंदी विसाहभूई अ तस्स जुवराया। जुवरन्नो विस्सभूई विसाहनंदी अ इअरस्स // 444 // राजगृहे नगरे विश्वनन्दी राजाऽभूत्, विशाखभूतिश्च तस्य युवराजः, तत्र युवराजस्य धारिणीदेव्या विश्वभूतिनाम मरीचिजीवः पुत्रो बभूव, विशाखनन्दिश्च इतरस्येति राज्ञः प्रियङ्गुराज्ञीपुत्रः, स च विश्वभूतिमरीचेर्जीवोऽन्यदा यौवने सान्तःपुरः पुष्पकरण्डके उद्याने रेमे, विशाखनन्दिं वनाहिदृष्ट्वा चेव्या प्रियङ्गुराश्यै कथितं, तया कुपितया विश्वनन्दिने राज्ञे कथितं, स च कूटेन यात्राभेरीताडनं चकार, भक्त्या विश्वभूतिरुद्यानाद्गतः सर्वान् राज्ञो वशिनः कृत्वाऽऽगतः, वने प्रवेशो न लेभे, विशाखनन्द्याश्रितत्वात् , कूटं ज्ञातं, तत्र कपित्थफलपातनं कृतं, भो द्वारपालाः! एवं मस्तकानि युष्माकं पातयामि परं मे भ्राता, ततश्चिन्तितवान्-भोगा अपमानमूलं, अलं मे भोगैरिति // 444 // उक्कार्थमाह रायगिह विस्सभूई विसाहभूइसुओ खत्तिए कोडी / वाससहस्सं दिक्खा संभूअजइस्स पासंमि // 445 // राजगृहे नगरे विश्वभूतिनामा विशाखभूतिसुतः क्षत्रियोऽभवत् , तत्र च वर्षकोटी आयुरासीत् तस्मिंश्च भवे वर्षसहस्रं दीक्षा कृता सम्भूतयतेः पार्थे, एकदा विहरन्मथुरायां मासक्षपणपारणार्थ प्रविष्टः, तत्रोद्वाहायागतेन विशाखनन्दिना दृष्टः॥४४५॥ गोत्तासिउ महुराए सनिआणो मासिएण भत्तणं / महसुक्के उववण्णो तओ चुओ पोअणपुरंमि // 446 // // 259 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy