________________ आवश्यकनियुक्तेरव चूर्णिः भरतस्य कैवल्यं मरीचिवृत्तान्तं च नि० गा० 436-437 // 256 // RRRRRRRRRRRA थूभसय भाउगाणं चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं॥४५॥ (भाष्यम्) स्तूपशतं भ्रातॄणां भरतः कारितवान् , तत्रैकं भगवत इति ज्ञेयं, चतुर्विंशतिं चैव जिनगृहे कृतवान् , का इत्याह-सर्वजिनानां प्रतिमाः, वर्णप्रमाणैर्निजैरात्मीयः, चकाराद्धातॄणामात्मनश्च प्रतिमाशतं // 45 // अथ भरतवक्तव्यतानिबद्धां सङ्घहगाथामाह आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स / सेसाणं उम्मुअणं संवेगो नाण दिक्खा य॥ 436 // . 'आदर्शकगृहे प्रवेशो भरतस्याभूत् , प्राकृतत्वात् षष्ठयथै सप्तमी, पतनं चाङ्गुलीयस्य बभूव, शेषाणां कटकादीनामुन्मोचनमनुतिष्ठितं, ततः संवेगो जातः, तदुत्तरकालं ज्ञानमुत्पन्नं, तदा च शक्रः समागतो रजोहरणाद्युपकरणमुपनीतं, दशभी राजसहस्रः समं प्रव्रजितः / शेषा नव चक्रिणस्तु सहस्रपरिवारा निष्कान्ताः / भगवान् भरतः पूर्वलक्षं केवलिपर्यायं पालयित्वा निर्वृतः / शक्रेणादित्ययशा राज्ये स्थापितः, एवमष्टौ पुरुषयुगानि // 436 // उक्तमानुषङ्गिकं, अथ प्रकृतां मरीचिवक्तव्यतामाहपुच्छंताणं कहेइ उवट्ठिए देइ साहुणो सीसे / गेलन्नि अपडिअरणं कविला इत्थंपि इहयंपि // 437 // मरीचिर्भगवति निवृते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यान् , अन्यदा स ग्लानः संवृत्तः, साधवोऽप्यसंयतत्वान्न प्रतिजापति, स चिन्तयतिनिष्ठितार्थाः खल्वेते, नाऽसंयतयः (तस्य) कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात्कञ्चन प्रतिजागरकं दीक्षयामीति / अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तस्यान्तिकं समागतः, कथिते साधुधर्मे स आह-यद्ययं मार्गः किमिति