________________ आवश्यकनियुक्तेरव- चूर्णिः जिनचक्रिदशारान्त / राणि नि० गा. 417418 // 249 // ऋषभतीर्थकरे भरतश्चक्रवत्ती, अजिते तीर्थकरे सगरश्चक्री भविष्यति, एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालगोचरसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत् 'मघवा सणंकुमारो सर्णकुमारं गया कप्प'मित्यादि मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य च शान्तेश्चानयोरन्तरं जिनान्तरं तस्मिन् भविष्यत्यभवद्वा // 416 // संती कुंथू अ अरो अरहंता चेव चक्कवट्टी अ। अरमल्लीअंतरे उ हवइ सुभूमो य कोरव्वो॥ 417 // | शान्तिः कुन्थुश्चार एते त्रयोऽप्यहन्तश्चैव चक्रवर्त्तिनश्च, अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे किन्तु पुरुषपुण्डरीकदत्ताख्यकेशवद्वयमध्ये // 417 // मुणिसुव्वए नमिमि अ हुंति दुवे पउमनाभहरिसेणा। नमिनेमिसु जयनामो अरिट्टपासंतरे बंभो // 418 // मुनिसुव्रते तीर्थकरे नमौ च भवतो द्वौ पद्मनाभहरिषेणौ, नमिश्च नेमिश्च नमिनेमी तयोर्नमिनेम्योः, अन्तरशब्दोऽत्रापि सम्बध्यते, जयनामाऽभवत्, अरिष्टनेमिपान्तरे ब्रह्मदत्तः॥४१८॥ . इह चासम्मोहार्थ सर्वेषामेव चक्रवर्त्तिवासुदेवानां यो यस्मिन्कालेऽन्तरे वा चक्रवती वासुदेवो वा भविष्यति बभूव वा तस्यानन्तरव्याणितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः बत्तीसं घरयाई काउं तिरियायताहिं रेहाहिं / उड्डाययाहिं कार्ड पंच घराई तओ पढमे // 1 // तिर्यगायतभिरूज़्यताभिरनया गाथया यन्त्रकरचना कार्या // 1 // पन्नरस जिण निरंतर सुन्नदुर्ग तिजिणसुन्नतियगं च / दो जिण सुन्न जिणिंदो // 249 //