________________ मरीचे बावश्यकनिर्युक्तेरव चूर्णिः // 233 // पारिव्रज्य कल्पना | नि० गा. |353-356 समणा तिदंडविरया भगवंतो निहुअसंकुइअअंगा। अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं // 353 // श्रमणा मनोवाकायलक्षणत्रिदण्डविरताः ऐश्वर्यादिभिग योगाद्भगवन्तः, निभृतानि-अन्तःकरणान्यशुभव्यापारपरित्यागात् , सङ्कुचितानि-अशुभकायव्यापारपरित्यागादङ्गानि येषां ते तथा, अहं तु नैवंविधो, यतः न जितानीन्द्रियाणिचक्षुरादीनि दण्डाश्च-चित्ताद्या येन स अजितेन्द्रियः, तस्याजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्नम| विस्मरणार्थ // 353 // लोइंदिअमुंडा संजया उ अयं खुरेण ससिहो अ। थूलगपाणिवहाओ बेरमणं मे सया होउ // 354 // मुण्डो द्विधा-द्रव्यतो भावतश्च, तत्रैतें श्रमणा द्रव्यभावमुण्डाः, कथं ? लोचेनेन्द्रियैश्च मुण्डाः संयतास्तु, अहं पुनर्नेन्द्रियमुण्डः, यतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, सर्वप्राणिवधविरताश्च श्रमणाः, अतः स्थूलपाणातिपाताद्विरमणं मे सदा भवतु // 354 // निकिंचणा य समणा अकिंचणा मज्झ किंचणं होउ / सीलसुगंधा समणा अहयं सीलेण दुग्गंधो // 355 // निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः, तथाऽविद्यमानं किचनमल्पमपि येषां तेऽकिश्चना जिनकल्पिकादयः, अहं तु नैवंविधो अतो मार्गाविस्मृत्यर्थ मम किञ्चनं भवतु पवित्रिकादि / तथा शीलेन शोभनो गन्धो येषां ते तथा, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तं // 355 // __ ववगयमोहा समणा मोहच्छण्णस्स छत्तयं होउ / अणुवाहणा य समणा मज्झं तु उवाहणा होन्तु // 356 // SXXXXXXXXXXX // 233 //