________________ बावश्यकनियुक्तेरव चूर्णिः I ऋषभदेवख दीक्षा लोचश्च नि० गा. 314 // 221 // नेऽवर्णितेऽभिहिताऽपि सम्यगवधार्यते इति (ऋषभ )जिनसमुत्थानमिह प्रकृतं, ननु स्यादेवं यदि मरीचेरप्युत्पत्त्या किञ्चिदिह प्रयोजनं स्यात् तच्च नास्त्यऽसम्बन्धत्वात्तस्या इत्याह-यद्यस्मात् कारणादेष सर्वोऽपि पूर्व पड्डिधनिर्गमस्वरूपप्रतिपादनादारभ्य सामायिकस्य कुतः पुरुषद्रव्यादिदं निर्गतं, सोऽपि च पुरुषः कथं मिथ्यात्वादिभ्यो निर्गत इत्येवंरूपो निर्गमोऽधिकृतः, तेन मरीच्युत्पत्तिः प्रयोजनवती, यदि नाम सामायिकस्य निर्गमोऽधिकृतस्तर्हि मरीच्युत्पत्तेः किमायातं ?, सत्यं, एतदुक्तं भवतिसामायिकाध्ययनं ह्येतत् , ततस्तस्य द्रव्यनिर्गमे विचार्यमाणे कुतो द्रव्यादिदं निर्गतमिति जिज्ञासिते महावीरद्रव्यादि वक्तव्यं, महावीरोऽपि कथं मिथ्यात्वादिभ्यो निर्गत इति बुभुत्सिते महावीरोत्पत्तिर्वक्तव्या, न चासौ मरीच्युत्थानकथनमन्तरेण अविकला कथिता स्यादिति मरीच्युत्थानं वक्तव्यं, तदपि च न ऋषभसमुत्थानकथनमन्तरेण सम्यक् कथयितुं शक्यते इति ऋषभजिनसमुत्थानस्य प्रकृतता, तच्च किश्चिदुक्तं किश्चिच 'चित्तबहुलट्ठमीए' इत्यादिनाऽनन्तरमेव वक्ष्यते // 313 // चित्तबहुलट्ठमीए, चउहि सहस्सेहि सो उ अवरण्हे / सीआ सुदंसणाए, सिद्धत्थवर्णमि छद्रेणं // 314 // चैत्रबहुलाष्टम्यां राज्ञां चतुर्भिः सहस्रैः समन्वितः सोऽपराहे शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्कारं विमुच्य चतुर्मुष्टिकं लोचं कृत्वा, पञ्चममुष्टियोग्यान् किल केशान् भगवतः कनकावदाते शरीरेऽञ्जनरेखा इव राजमानानुपलभ्य शक्रेण विज्ञप्तं-भगवन् ! मय्यनुग्रहं विधाय ध्रियन्तामेवामी, भगवतापि तदुपरोधात्तथैव कृतं, अत एवेदानीमपि स्कन्धोपरि वेल्लरिकाः क्रियन्ते इति भावः // 314 // चतुर्भिः सहस्रैः समन्वित इत्युक्तं, तेषां किं दीक्षां भगवान दत्तवानुत नेत्यत्राह // 221 //