________________ आवश्यकनियुक्तेरव चूर्णिः // 220 // द्वारं ऋषभजिनसमुस्थानं च नि० गा० 311313 अनन्तस्य सिद्धिं गच्छतः सप्त सहस्राणि परिवार आसीत् , विमलस्य षट् सहस्राणि, पञ्चशतानि सुपार्श्वविषयाणि, पद्मप्रभतीर्थकृद्विषये त्रीण्यष्टोत्तरशतानि साधूनां निर्वृतानि, त्रीणि शतानि चतुर्विंशतिसमाधिकानि इत्यर्थः // 31 // दसहि सहस्सेहि उसभो, सेसा उ सहस्सपरिवुडा सिद्धा। कालाइ जं न भणिअं, पढमणुओगाउ तं णेयं // 31 // दशभिः सहस्रैर्ऋषभः, शेषास्तु-उक्तव्यतिरिक्ताः प्रत्येकं सहस्रपरिवृताः सिद्धाः, अन्तक्रियासम्बन्धिकालादिखरूपं यन्मयेह न भणितं तत्प्रथमानुयोगात् द्वादशाङ्गान्तर्गताच्छास्त्रविशेषाद्विज्ञेयं // 311 // इच्चेवमाइ सव्वं, जिणाण पढमाणुओगओ अंग ठाणासुण्णत्थं पुण, भणि 21 पगयं अओ वुच्छं // 312 // इतिरेवंप्रकारार्थे, ततश्च 'संबोहणपरिच्चाए' इत्यादिग्रन्थसन्दर्भेण यन्मया तीर्थकृतां सम्बोधनपरित्यागादिनोक्तमित्येवंप्रकारमादौ कृत्वाऽपरमपि पूर्वभववक्तव्यतादिकं सविस्तरं सर्वजिनानां सम्बन्धि प्रथमानुयोगादुक्तस्वरूपाद्विज्ञेयं, ननु यद्येवं तर्हि सर्वमपि तत एव ज्ञास्यते, त्वया किञ्चिदपि किमित्युक्तं इत्याशङ्क्याह-स्थानाऽशून्यार्थ पुनर्भणितं किञ्चिदिति गम्यते इति न दोष इति, किमित्याह-प्रकृतं-प्रस्तुतं वस्तु अतो वक्ष्ये // 312 // किं तदिह प्रकृतमित्याह उसभजिणसमुट्ठाणं, उट्ठाणं जं तओ मरीइस्स / सामाइअस्स एसो, जं पुव्वं निग्गमोऽहिगओ॥ 313 // ___ कथमसौ सम्यक्त्वमवाप ? कथं तीर्थकृन्नामकर्म बबन्ध ? कुतो वाऽऽगत्येहोत्पन्नः? कदा वा दीक्षां जग्राहेत्यादिलक्षण- मृषभजिनसमुत्थानमत्र प्रकृतं तद्वक्ष्ये इति पूर्वगाथावयवेन सम्बन्धः, ननु कथमत्र ऋषभजिनसमुत्थानं प्रकृतमित्याह-यद्यस्मात्कारणात्ततः-ऋषभजिनात् उत्थानमुत्पत्तिमरीचेः, इदमुक्तं भवति-मरीचेरिहोत्पत्तिरानेतव्या, न चासौ ऋषभदेवसमुत्था 220 /