________________ आवश्यकनियुक्तेरव चूर्णिः // 202 // आसन् , स्वस्वमण्डलमात्राधिपतय इत्यर्थः // 223 // गतं परित्यागद्वारं, अथ प्रत्येकद्वारमाहएगो भगवं वीरो, पासो मल्ली अतिहि तिहि सएहिं / भयवं च वासुपुज्जो, छहिं पुरिससएहि निक्खंतो॥२२४॥ उग्गाणं भोगाणं, रायण्णाणं च खत्तिआणं च / चउहि सहस्सेहुसभो, सेसा उ सहस्सपरिवारा // 225 // एको भगवान् वीरः प्रव्रजितः, पार्थो मल्लिश्च त्रिभिः त्रिमिः शतैः, भगवांश्च वासुपूज्यः षभिः पुरुषशतैः सह निष्क्रान्तः॥ 224 // उग्राणां भोगानां राज्या(जन्या )नां च क्षत्रियाणां च, सर्वसङ्ख्यया चतुर्भिः सहस्रैः सह ऋषभो निष्क्रान्तः, शेषास्त्वजितस्वाम्यादयः सहस्रपरिवाराः, एतेषां [ उग्रादीनां च ] विशेषः प्रागेवोपदर्शितः, // 225 // प्रसङ्गतोऽत्रैव द्वारे ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह-. वीरो अरिट्ठनेमी, पासो मल्ली अ वासुपुज्जो अ / पढमवए पब्वइआ, सेसा पुण पच्छिमवयंमि // 226 // एते पञ्च तीर्थकृतः प्रथमवयसि-कुमारत्वलक्षणे प्रव्रजिताः, शेषा मध्ये वयसि-यौवनलक्षणे वर्तमानाः प्रव्रजिताः॥२२६॥ उपधिद्वारमाहसव्वेऽवि एगदूसेण, निग्गया जिणवरा चउव्वीसं। न य नाम अण्णलिंगे, नो गिहिलिंगे कुलिंगे वा // 227 // सर्वेऽपि भगवन्तोऽतीता जिनवराश्चतुर्विंशतिसङ्ख्याः, एतेन सर्वास्वप्यवसर्पिणीषु (पूत्सर्पिणीषु च ) प्रत्येकं भरतक्षेत्रे चतुर्विंशतिरेव तीर्थकरा अभूवन्निति ख्यापितं, एकदृष्येण-एकेन वस्त्रेण निर्गताः-अभिनिष्क्रान्ताः, किं पुनस्तन्मतानुसारिणो न सोपधयः?, ततश्च य उपधिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु प्रत्येकोपधिद्वारे नि० गा० 224227 SABBBB&&&&& // 202 // &&&&XXXX