________________ आवश्यक नियुक्तेरव चूर्णिः वार्षिकदान प्रमाणं नि० गा० 220 // 201 // विधयः-रत्नस्वर्णादिदानप्रकारा यत्र तद्बहुविधिकं, सुरैर्वैमानिकैरसुरैर्भवनपतिभिः, देवग्रहणेन ज्योतिष्कैनवग्रहणेन व्यन्तः, नरेन्द्रेति इन्द्रशब्दः प्रत्येकमभिसम्बध्यते, नरेन्द्रैश्चक्रवर्त्तिप्रभृतिभिर्महितानां भगवतां निष्क्रमणे // 219 // अथैकैकेन तीर्थकृता | कियद्रव्यं दत्तं संवत्सरेणेत्याह तिण्णेव य कोडिसया, अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा, एअं संवच्छरे दिण्णं // 220 // त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोट्यः अशीतिश्च शतसहस्राणि 3888000000 एतत्संवत्सरे दत्तमेकैकेन तीर्थकृता, एतच्च प्रतिदिन देयं त्रिभिः षष्ट्यधिकैर्वासरशतैर्गुणितं यथावर्णितं भवति, इति प्रथमवरवरिकावचूर्णिः // 220 // सम्प्रति अधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहवीरं अरिट्टनेमि, पास मल्लिं च वासुपुजं च / एए मुत्तूण जिणे, अवसेसा आसि रायाणो॥ 221 // एतान् पञ्च जिनान् मुक्त्वा अवशेषा आसन् राजानः // 221 // रायकुलेसुरुवि जाया, विसुद्धवंसेसु खत्तिअकुलेसुं। न य इत्थिआभिसेआ, कुमारवासंमि पव्वइआ // 222 // एते हि महावीरप्रभृतयः पञ्च तीर्थकृतो राजकुलेष्वपि जाता विशुद्धवंशेषु क्षत्रियकुलेषु, राजकुलं हि किञ्चिदक्षत्रियमपि स्यादतः क्षत्रियकुलेष्वित्याह-न चेप्सिता (च स्त्रीपाणिग्रहणराज्याभिषेकाः किन्तु कुमारवास एव प्रव्रजिताः // 222 // संती कुंथू अ अरो, अरिहंता चेव चक्कवही अ। अवसेसा तित्थयरा, मंडलिआ आसि रायाणो // 223 // ये च राजानस्तेषु शान्तिः कुन्थुश्चार एते त्रयोऽर्हन्तश्चक्रवर्त्तिनश्चाभवन् , अवशेषाः पुनस्तीर्थकरा माण्डलिका राजान कुमाराधवस्थायां प्रव्रज्या नि० गा० 221 223 // 201 //