________________ बावश्यकनियुक्तेरव चूर्णिः | परित्याग द्वारे सांवत्सरिकदानं नि०मा० 216219 // 20 // संवच्छरेण होही, अभिणिक्खमणं तु जिणवरिंदाणं / तो अत्थसंपयाणं, पवत्तए पुव्वसूरंमि // 216 // संवत्सरेण जिनवरेन्द्राणामभिनिष्क्रमणं भविष्यति, ततोऽर्थदानं प्रवर्तते, अर्थस्य सम्यकू-तीर्थप्रभावनबुझ्यानुकम्पाबुद्ध्या च, न तु कीर्तिबुद्ध्या, प्रदानं जनेभ्यः प्रवर्तते, पूर्वसूर्ये-पूवाढे // 216 // कियत्प्रतिदिवसं दीयत इत्याह एगा हिरण्णकोडी, अद्वैव अणूणगा सयसहस्सा / सूरोदयमाईअं, दिजइ जा पायरासाओ // 217 // - एका हिरण्यकोटी अष्टौ चान्यूनानि-परिपूर्णानि शतसहस्राणि-लक्षाणि, सूर्योदय आदौ यस्य दानस्य तत्सूर्योदयादि, 'क्रियाविशषणं, सूर्योदयादारभ्य दीयत इति भावः, प्रातरशनं प्रातराशः तस्मात्तमभिव्याप्य, प्रातर्भोजनकालं | यावदिति // 217 // यथा दीयते तथा चाह सिंघाडगतिगचउक्कचच्चरचउमुहमहपहेसुं। दारेसु पुरवराणं, रत्थामुहमज्झयारेसुं॥२१८॥ वरवरिआ घोसिजइ, किमिच्छअंदिजए बहुविही। सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे // 219 // शृङ्गाटकं शृङ्गाटकाकृतिपथयुक्तं त्रिकोणं स्थानं वाA, त्रिकं यत्र रथ्यात्रयं मिलति / , चतुष्पथसमाहारःx, चत्वरं बहुरथ्यापातस्थानं*, चतुर्मुखं यस्माच्चतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, महापथो राजमार्गः, शेषः सामान्यः पन्थाः पथः | एतेषां द्वन्द्वस्तेषु, पुरवराणां द्वारेषु प्रतोलिष्वित्यर्थः, रथ्यानां मुखानि-प्रवेशा मध्यकारा-मध्या एव कारशब्दस्य स्वार्थिकत्वाद्रथ्यामुखमध्यकारास्तेषु // 218 // किमित्याह-वरं याचध्वं वरं याचध्वं इत्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, सा | शृङ्गाटिकादिषु घोष्यते, कः किमिच्छति-यो यदिच्छति तस्य तदानं दीयते इति समयसंज्ञया किमिच्छकमुच्यते, बहवो // 20 //