SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अावश्यकनियुक्तेरव चूर्णिः // 198 // सम्बोधनपरित्यागप्रत्येकोपधिद्वाराणि नि० गा. 212213 कस्येति वाच्यं 13, ज्ञानोत्पादो वाच्यः यस्य यस्मिन्नहनि केवलमुत्पन्नमिति 14, सङ्ग्रहः कस्य कियान् शिष्यादिः१५॥२१॥ I कस्य कदा तीर्थमुत्पन्नं, तीर्थ-सङ्घः 16, गणः-एकवाचनाचारक्रियास्थानां समुदायः, ते कस्य कियन्तः? 17, गणधराःसूत्रक रस्ते कस्य कियन्तः 181, तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योपायो-द्वादशाङ्गं प्रवचनं तस्य देशकास्ते च सर्वतीर्थकृतां मणधरा एव, अथवा यस्य यावन्तश्चतुर्दशपूर्वविदः 19, कः कस्य प्रव्रज्यादिपर्यायः 20, अन्ते क्रिया [अन्तक्रिया] सा च निर्वाणलक्षणा, सा कस्य केन तपसा सञ्जाता, वाशब्दात्कस्मिन्वा सञ्जाता कियत्परिवृतस्य चेति वक्तव्यम् // 21 // 211 // आद्यद्वारार्थाभिधित्सयाह सब्वेऽवि सयंबुद्धा, लोगंतिअबोहिआ य जीएणं 1 / सव्वेसिं परिचाओ, संवच्छरिअं महादाणं // 212 // सर्व एव तीर्थकृतः, स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात् , तथापि लोकान्तिकाः-सारस्वतादिदेवास्तबोधिताश्च जीतमिति-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत स्वयंबुद्धानपि भगवतो बोधयन्ति / परित्यागद्वारमाहसर्वेषां परित्यागः सांवत्सरिकं महादानं-वक्ष्यमाणलक्षणम् // 212 // रज्जाइच्चाओऽवि य 2, पत्तेअं को व कत्तिअसमग्गो 3 / को कस्सुवही ?, को वाऽणुण्णाओ सीसाणं 4 // 213 // राज्यादित्यागोऽपि च परित्यागः 2, प्रत्येकद्वारमाह-प्रत्येकमिति 3, एककः को वा कियत्समग्र [ निष्क्रान्त ] इति वाच्यं, कः कस्योपधिः?, को वा केनानुज्ञातः शिष्याणामुपधिरिति 4 // 213 / / // 198 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy