________________ बावश्यकनिर्युक्तेरव चूर्णिः सम्बोधनादिद्वार गाथा: निगा 209211 // 197 // इह वक्तमिदानीमधिकृतं भगवतश्चरित्रं, तत्र ऋषभचरित्राधिकारे वक्ष्यमाणं सम्बोधनादि सर्वेषामपि जिनवराणां सामान्यं, अतस्तथैव सामान्येनोक्त्वा पश्चात्प्रत्येकं ऋषभस्य, शेषं चरित्रं वक्ष्ये // 208 // अथ सम्बोधनादिद्वारप्रतिपादनार्थ द्वारश्लोकत्रयमाह संबोहण परिचाए, पत्तेअं उवहिमि अ / अन्नलिंगे कुलिंगे अ, गामायार परीसहे // 209 // जीवोवलंभ सुयलंभे, पञ्चक्खाणे अ संजमे / छउमत्थ तवोकम्मे उप्पाया नाण संगहे // 21 // तित्थं गणो गणहरो, धम्मोवायस्स देसगा। परिआअ अंतकिरिया, कस्स केण तवेण वा ? // 211 // सर्वेऽपि तीर्थकृतः स्वयंबुद्धास्तथापि कल्प इतिकृत्वा लोकान्तिकदेवाः सम्बोधनं कुर्वन्ति, ततः सम्बोधनं 1, परित्याग इति परित्यागविधिर्वक्तव्यः, प्रत्येकमिति कः कियत्परिवारो निष्कान्तः 3, उपधिविषयो विधिर्वाच्यः, कः केनोपधिरासेवितः? को वा विनेयानामनुज्ञातः 4, अन्यलिङ्ग-साधुलिङ्गं, [कुलिङ्गं-तापसादिलिङ्गं, तत्र ते नाऽन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे | किन्तु तीर्थकरलिङ्ग एव 5, ग्राम्याचाराः-विषयाः, परीषहाः-शुदादयः, तयोविधिर्वाच्यः, कुमारप्रवजितैर्विषया न भुक्ताः शेषैर्भुक्ताः 6, परीषहाः सर्वैनिर्जिता एवेति 7 // 209 // जीव इति उपलक्षणं, सर्वैरेव तीर्थकृद्भिर्नवजीवादिपदार्था उपलब्धाः 8, श्रुतलाभः पूर्वभवे प्रथमस्य द्वादशाङ्गान्यासन् शेषाणामेकादश, प्रथमान्तस्याप्येकारान्तता सूत्रे प्राकृतत्वात् 9, प्रत्याख्यानं च पञ्च महाव्रतरूपमाद्यचरमयोः, मध्यमानां तु चतुर्महाव्रतरूपं 10, संयमोऽप्याद्यचरमयोः सामायिकच्छेदोपस्थानाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषां, 11, कः कियन्तं कालं छद्मस्थ आसीत् ? 12, तपःकर्म किं // 197 //