________________ आवश्यकनियुक्तेरव चूर्णिः // 189 // सप्तदशो यस्य तत् सणसप्तदशं धान्य-शाल्यादि आमम्-अपक्कं ओम-न्यून 'भुजीया' भुक्तवन्तः॥६॥ आहारद्वार ओमपाहाता अजीरमाणंमि ते जिणमुर्विति / हत्थेहिं घंसिऊणं, आहारेहत्ति ते भणिआ॥७॥ (मू. भा.) मू० भा० अवममपि-स्तोकमप्याहारयन्तोऽजीर्यत्याहारे ते जिनमुपयान्ति, भगवता च हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति भणिताःगा०६-८ सन्तः॥७॥ किमित्याहआसी अ पाणिघंसी, तिम्मिअतंदुलपवालपुडभोई / हत्थतलपुडाहारा, जइआ किर कुलकरो उसहो // 8 // (मू. भा.) आसंश्च ते भगवदुपदेशात् पाणिभ्यां घर्षितुं शीलं येषां ते पाणिर्षिणः, ता एवौषध्यो हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्त इत्यर्थः, कियत्यपि काले गते ता अपि न जीर्णवन्तः, पुनरपि भगवन्तमापृच्छय तदुपदेशात् तीमितान् तन्दुलान् प्रवालपुटे पत्रपुटे मुहूर्त धृत्वा भुञ्जत इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, कियता कालेन ता अपि न जीर्यन्ति इति भूयोऽपि घृष्ट्वा तदुपदेशेन हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः / कालदोषत औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति ततो भगवदुपदेशेन कक्षासु स्वेदयित्वा भुक्तवन्तः, यदा किल कुलकरऋषभः, पूर्ववत् पुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्टा हस्तपुटेषु च मुहूर्त धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षासु च स्वेदं कृत्वा तथा तीमित्वा हस्तपुटेषु च मुहूर्त धृत्वेत्यादिभङ्गकयोजनां, // 189 // केचित् प्रदर्शयन्ति घृष्ट्रापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्तेः, सूक्ष्मत्वग्भावाद्वाऽदोषः इति द्विकसंयोगाः, त्रिकसंयोगजभङ्गाः पुनर्हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु च मुहूर्त