________________ आवश्यकनिर्युक्तेरवचूर्णिः आहारादिद्वाराणि आ| हारद्वारं च नि. गा० 2-6 मू० भा० गा० // 188 // समवायाः-गोष्ठ्यादिमेलापकाः 24, मङ्गलानि-स्वस्तिकादीनि 25, कौतुकानि-रक्षादीनि, मङ्गलानि च कौतुकानि चेति समासः, मङ्गलेत्ति एकारोऽलाक्षणिकः 26, 'वस्त्रं' चीनांशुकादि 27, गन्धः कोष्ठपुटादिः 28, 'माल्यं' पुष्पदाम 29, 'अलङ्कारः' केशभूषणादिः 30 // 205 // चोलोवण विवाहे अ, दत्तिआ मडयपूअणा / झावणा थूभ सद्दे अ, छेलावणय पुच्छणा // 206 // 'चूले' ति बालानां चूडाकर्म 31, तेषामेव कलाग्रहणार्थ नयनमुपनयनं साधुसकाशं धर्मश्रवणनिमित्तं वा 32, विवाहश्च 33, दत्वा च कन्या पित्रादिना परिणीयते, इत्येतत्तदैव सञ्जातं, भिक्षादानं वा 34, मृतकपूजना 35, 'ध्यापना' अग्निसंस्कारः 36, भगवदादिदग्धस्थानेषु स्तूपाः 37, शब्दश्च-रुदितशब्दः 38, 'च्छेलापनक'मिति देशीवचनं, उत्कृष्टिबालक्रीडापनसेण्टिताद्यर्थवाचकं 39, पृच्छनं सा इकिणिकादिलक्षणा 40, इति द्वारसद्धेपार्थः // 206 // अवयवार्थ प्रतिद्वारं भाष्यद्वक्ष्यति, अत्राद्यद्वाराभिधित्सयाह मूलभाष्यकृत्|आसी अ कंदहारा मूलाहारा य पत्तहारा य / पुप्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसमो॥५॥ (मू. भा.)| यदा 'किले ति परोक्षाप्तागमवादसंसूचकः, ऋषभः कुलकरो-राजा आसीत् तदा ते मिथुनकरा आसन् , कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च // 5 // | आसी अ इक्खुभोई, इक्खागा तेण खत्तिआ हुंति / सणसत्तरसं धणं, आम ओमं च भुंजीआ॥६॥(मू. भा.) तदा क्षत्रिया येन कारणेन वाहुल्येनेक्षुभोजिन आसीत् तेन कारणेन ते क्षत्रिया इक्ष्वाकवो लोके ख्याताः। सणः EXXXXXXXXXXXEKSHEESE // 188 //