________________ राज्याभिषेकराज्यसन आवश्यकनिर्युक्तेरव चूर्णिः // 186 // हद्वारे गा० CAOIR00-202 आभोग्यावधिज्ञानेन सम्यग्वस्तुगतिमवगम्य शक्र उपागतः, तस्य भगवतः करोति राज्याभिषेकं, मुकुटाद्यलङ्कारं च, आदिशब्दात्कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः सम्बन्धः, नरेन्द्रयोग्यं च 'से' तस्य करोति, अत्रापि वर्तमाननिर्देशः प्राग्वत् / पाठान्तरं वा 'आभोएउं सक्को आगंतुं तस्स कासि अभिसेयं / मउडाइअलंकारं नरिंदजोग्गं च से कासी'ति॥१॥ अत्रान्तरे मिथुनकनराः समागताः // 199 // एतदेवाहभिसिणीपत्तेहिअरे, उदयं घिन्तुं छुहंति पाएसु / साहु विणीआ पुरिसा, विणीअनयरी अह निविट्ठा // 20 // बिसिनीपत्रैः-पद्मिनीपत्ररितरे-मिथुनकनराः उदकं गृहीत्वा प्रक्षिपन्ति भगवत्पादयोरुपरि, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराजोऽचिन्तयत्-साधु विनीताः पुरुषा एते इति वैश्रमणमाज्ञापितवान् , इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी निष्पादयेति, तेन च शक्रादेशाद् अथ-अनन्तरं दिव्यभवनप्राकारमालोपशोभिता विनीताभिधाना नगरी निविष्टा अन्तर्भूतण्यर्थत्त्वान्निवेशितेत्यर्थः // 200 // गतमभिषेकद्वारमथ राज्यसङ्ग्रहद्वारमाह आसा हत्थी गावो, गहिआई रजसंगहनिमित्तं / चित्तूण एवमाई, चउविहं संगहं कुणइ // 201 // - अश्वा हस्तिनो गाव एतानि चतुष्पदानि भगवता तदा गृहीतानि राज्यविषयः सङ्ग्रहः राज्यसङ्ग्रहः तन्निमित्तम्, अश्वादिग्रहणं एवमादिचतुष्पदजातमसौ गृहीत्वा चतुर्विधं-वक्ष्यमाणलक्षणं सङ्घहं करोति, वर्तमाननिर्देशः प्राग्वत् , पाठान्तरं वा | 'संगहं कासी' // 201 // कोऽसौ चतुर्विधः सङ्ग्रह इत्याह - उग्गा भोगा रायण्ण खत्तिआ संगहो भवे चउहा। आरक्खि गुरु वयंसा सेसा जे खत्तिआ ते उ॥२०२॥ XXXXX&&&&&& // 186 //