________________ आवश्यकनिर्युक्तेरव चूर्णिः // 185 // देवी सुमंगलाए, भरहो बंभी य मिहुणयं जायं / देवीइ सुनंदाए, बाहुबली सुंदरी चेव॥४॥(मू० भा०) राज्यद्वारं सुगमा / अन्यान्यप्यपत्यान्याह गा० अउणापण्णं जुअले, पुत्ताण सुमंगला पुणो पसवे / नीईणमइकमणे, निवेअणं उसमसामिस्स // 197 // | 197-199 एकोनपश्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राग्निरूपितानां हकारादिदण्डनीतीनां ते लोकाः *प्रचुरतरकषायसम्भवात् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय निवेदनं-कथनम् ऋषभस्वामिने कृतवन्त इत्यध्याहारः // 198 // एवं निवेदिते सति भगवानाह राय करेइ दंड, सिहे ते बिति अम्हवि स होउ। मग्गह य कुलगरं, सो य बेइ उसमो य भे राया। 198 // नीत्यतिक्रमकारिणां राजा करोति दण्डं, स चामात्याऽऽरक्षकादिबलयुक्तः कृताभिषेकोऽनतिक्रमणीयाज्ञश्च भवति, एवं भगवता शिष्टे-कथिते सति ते मिथुनका ब्रुवते-अस्माकमपि स राजा भवतु, वर्तमाननिर्देशः खल्वन्यास्वप्यवसर्पिणीषु प्राय एष एव न्याय इति प्रदर्शनार्थः, सूत्रस्य त्रिकालगोचरत्वात् , अथवा प्राकृतत्वादापत्वाद्वा, भगवानाह-यद्येवं तर्हि मार्गयत-याचध्वं कुलकरं, तैर्याचितो नाभिकुलकरः, स च ब्रूतेऽहं महान् जातः, ऋषभो भे भवतां राजा, ततश्चे ते मिथुनकनरा राज्याभिषेककरणार्थमुदकानयनार्थ पद्मिनीसरो गतवन्तः, अत्रान्तरे आसनप्रकम्पादवधिना विज्ञाय शक्रः समागत्य Palm185 // राज्याभिषेकं कृतवान् // 198 // अमुमेवार्थमुपसंहरन्ननुक्तं च प्रतिपादयन्नाह आभोएउं सको, उवागओ तस्स कुणइ अभिसेअं। मउडाइअलंकारं, नरिंदजोग्गं च से कुणइ // 199 //