________________ A आवश्यकनियुक्तेरव न हि भगवतो देवर विवाहापत्यद्वारे चूर्णिः गा० 194-196 // 184 // गमत् , तस्मा किञ्चिन्मिथुनं मा कण्णा य कुलमयोऽभ्यधिकः / जातिं स्मरतीति जातिस्मरश्च भगवान् , अप्रतिपतितैरेव त्रिभिर्मतिश्रुतावधिरूपैानैः, अवधिज्ञानं हि भगवतो देवलौकिकमेवाप्रच्युतं भवति, कान्त्या च बुद्ध्या च तेभ्यस्तत्कालभाविभ्यो मिथुनमनुष्येभ्योऽभ्यधिकः॥१९३॥ अथ विवाहद्वारमाहपढमो अकालमचू, तहिं तालफलेण दारओ पहओ। कण्णा य कुलगरेणं, सिहे गहिआ उसहपत्ती॥१९४॥ भगवतो देशोनवर्षकाले एव किञ्चिन्मिथुनं सञ्जातापत्यं सत् तदपत्यमिथुनकं तालवृक्षस्याधो विमुच्य रिरंसया कदलीगृहादिक्रीडागृहमगमत् , तस्माच्च तालवृक्षात् पवनप्रेरितपक्कं तालफलमपतत्, तेन दारकोऽकाले मृतः, एष प्रथमोऽवसपिण्यामकालमृत्युः, तदपि मिथुनकं तां दारिकां संवर्द्धयित्वा प्रतनुकषायं मृत्वा सुरलोके समुत्पन्नं, तां चोत्कृष्टरूपां दारिकां दृष्ट्वा मिथुनका नाभिकुलकराय न्यवेदयन् , शिष्टे च-निवेदिते च कन्या ऋषभपत्नी भविष्यतीति कुलकरेण गृहीता // 194 // भोगसमत्थं नाउं, वरकम्मं तस्स कासि देविंदो। दुण्डं वरमहिलाणं, वहुकम्म कासि देवीओ // 195 / / भोगसमर्थ भगवन्तं ज्ञात्वा तस्य वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोर्वरमहेलयोनन्दासुमङ्गलयोः वधूकर्म देव्यो-देवेन्द्राग्रमहिष्योऽकार्पः // 195 // अथ अपत्यद्वारमाह छप्पुव्वसयसहस्सा, पुटिव जायस्स जिणवारदस्स / तो भरहबंभिसुंदरिबाहुबली चेव जायाई॥ 196 // जातस्य जिनवरेन्द्रस्य षट् पूर्वशतसहस्राणि-पूर्वलक्षाणीत्यर्थः, व्यतिक्रामन् एतावत्यवसरे भगवतो भरतादिचत्वार्यपत्यानि जातानि अनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतबाहीति मिथुनकं जातं, तथा सुबाहुमहापीठश्च सुनन्दाया बाहुबली सुन्दरीति मिथुनकम् // 196 // अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकार: ***83 184 //